बकुलानां वञ्जुलानामशोकानां च काननम् । मल्लिकानां पलाशानां शिरीषाणां तथैव च
धात्रीणां काञ्चनानां च कर्णिकानां वनं तथा । नागेश्वराणां विपिनं लवङ्गानां तथैव च
वनं च शालतालानां हिन्तालानां वनं तथा । पनसानां रसालानां लाङ्गलीनां मनोहरम्
मन्दारकाननं रम्यं वामं कृत्वा च सत्वरम् । दृष्ट्वा कुन्दवनं रम्यं संप्राप्य मधुकाननम्
पुंस्कोकिलानां शब्देन मधुरेण समन्वितम् । मधुव्रतसमूहानां मधुरध्वनिबूरितम्
वन्यवृक्षैः परिवृतं माध्वीकाधारमीप्सितम् । वातेन वन्यबुष्पाणां वरितः सुरभीकृतम्
तद्दृष्ट्वा राजमार्गेण यशोदोक्तेन सांप्रतम् । ययौ शीघ्रं निरुद्विग्निं रहस्यं बदरीवनम्
श्रीफलानां च निम्बार्नां नारिङ्गाणां वनं तथा । पद्मानां करवीराणां तुलसीनां च काननम्
दृष्टवा रक्तिमवर्णं च सुपक्वफलमीप्सितम् । तदेव वामतः कृत्वा विवेश कदलीवनम्
अतीव निर्जने रम्ये ददर्श राधिकाश्रमम् । मणीन्द्राणां च प्राकारं परिखादुर्गवेष्टितम्
अत्यगम्यं रिपूणां च मित्राणां सुगमं सुखम् । गोप्यं संकेतमार्गं च रक्षकैः परिरक्षितम्
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा । मणीन्द्रमुक्तामाणिक्यहीरहारोज्ज्वलं परम्
रत्नेन्द्रसाररचितं रत्नस्तम्भैः सुशोभितम् । रत्नसोपानसंसक्तमन्दिरेण मनोहरम्
अमूल्यरत्नखचितं कलशैः परिशोभितम् । वाह्निशुद्धांशुकाभिश्च पताकाभिः परिष्कृतम्
सद्रत्नदर्पणोत्कृष्टं चर्चितं श्वेतचामरैः । ददर्श सिंहद्वारं च युक्तं रत्नकपाटकैः
द्वारोपरि विचित्रं च रम्यं वृन्दावनं वनम् । कदम्बकाननं रम्यं तद्वास्त्रहरणादिकम्
विश्वकर्मविरचितं सुरम्यं रासमण्डलम् । नानारत्नकुटीरं च गोपगोपीसमन्वितम्
रक्षितं गोपिकालक्षैर्वेत्रहस्तैर्मनोहरैः । स्वच्छन्दाचरणैः शश्वदमितैर्बलिभिर्मुदा
तद्द्वारं पुरतो दृष्ट्वा विलङ्क्य च जगाम् सः । द्वितीयं द्वारमुल्लङ्घ्य तस्मादुत्तममीप्सितम्
द्वारं चतुर्थं संप्राप्य सर्वस्माच्च विलक्षणम् । तत्पश्चात्पञ्चमं द्वारं ददर्श चित्रमुत्तमम्
द्वारषट्कं च प्रययौ सर्वत्र रुचिरं परम् । रामरावणयोर्युद्धं भित्तिचित्रं मनोहरम्
दशावतारं विष्णोश्च कृत्रिमं रासमण्डलम् । यमुनाजलकेलिं च रचितां विश्वकर्मणा
गोपिकानां सहस्रेणा षष्ठं द्वारं च रक्षितम् । रत्नेन्द्रसारनिर्माणभूषणैर्भूषितेन च
सद्रत्नदण़्डहस्तेन हीरकैर्भूषितेन च । मणीन्द्रमुक्तामाणिक्यहीरहारान्वितेन च
माधवी तत्प्रधाना सा पप्रच्छ सांप्रतं शिवम् । ददौ प्रत्युत्तरं सर्वं क्रमेण च स उद्धवः
गत्वा विज्ञापयामास राधाप्रियसखीगणम् । सा माधवी महाहृष्टा तत्र संस्थाप्य तं मुदा
श्रुत्वा मङ्गलवार्तां च राधाप्रियसखीगणैः । कृत्वा शङ्खध्वनिं घण्टामृदङ्गपटहस्वनम्
कृत्वा निर्मञ्छनं शीघ्रमुद्धवं प्रियमागतम् । हृष्टा प्रवेशयामास राधाभ्यन्तरमुत्तमम्
अमूल्यरत्ननिर्माणं गत्वा मन्दिरमुत्तमम् । ददर्श पुरतो राधां कुह्वा चन्द्रकलोपमाम्
सुपक्वपद्मनेत्रां च शयानां शोकमूर्च्छिताम् । रुदतीं रक्तवदनां विल्ष्टां च त्यक्तभूषणाम्