गङ्गां च मनसि ध्यात्वा दिमीशं तं महेश्वरम् । प्रजगामोद्धवश्चैव दृष्ट्वा मङ्गलमूचकम्
शुश्राव दुंदुभिं घण्टानादं शङ्खध्वनिं तथा । हरिशब्दं च संगीतं शुश्राव मङ्गलध्वनिम्
पतिपुत्रवतीं साध्वीं प्रदीपं माल्यदर्पणम् । परिबूर्णतमं कुम्भं दधिलाजफलानि च
दूर्वाङ्कुरं शुक्लधान्यं रजतं काञ्चनं मधु । ब्राह्मणानां समूहं च कृष्णसारं वृषं घृतम्
सद्योमांसं गजेन्द्रं च नृपेन्द्रं श्वेतघोटकम् । पताकां नकुलं चाषं शुक्लं पुष्पं च चन्दनम्
दृष्ट्वैवं पथि कल्याणं प्राप वृन्दावनं वनम् । ददर्श पुरतो वृक्षं भाण्डीरे वटमक्षयम्
स्निग्धपर्ण रक्तवर्ण पुण्यदं तीर्थमीप्सितम् । सुवेषान्बालकांश्चैव रत्नभूषणभूषितान्
वदतो बलकृष्णेति रुदतश्च शुचाऽन्वितान् । तानाश्वास्य ययौ दूरं प्रविश्य नगरं मुदा
ददर्श नन्दशिबिरं रचितं विश्वकर्मणा । मणिरत्नविनिर्माणं मुक्तामाणिक्यहीरकैः
परिच्छन्नं मनोरम्यं सद्रत्नकलशान्वितम् । द्वारं चित्रं विचित्राढ्यं दृष्ट्वा च प्रविवेश सः
अवरुह्य रथात्तूर्ण तस्थौ तत्प्राङ्गणे मुदा । यशोदा रोहिणी शीघ्रं पप्रच्छ कुशलं परम्
आसनं च जलं गां च मधुपर्कं ददौ मुदा । क्व नन्दः क्व बलः कृष्णः सत्यं तत्कथयोद्धव
उद्धवः कथयामास सर्व भद्रं क्रमेण च । सार्धं च बलकृष्णाभ्यां नन्दः सानन्दपूर्वकम्
आयास्यति विलम्बेन कृष्णोपनयनावधि । युष्माकं कुशलं तत्वं विज्ञाय विधिपूर्वकम्
अहं यास्यामि मथुरां यशोदे शृणु सांप्रतम् । श्रृत्वा मङ्गलवार्ता च यशोदा रोहिणी मुदा
ब्राह्मणाय ददौ रत्नं सुवर्णं वस्त्रमीप्सितम् । उद्धवं भोजयामास मिष्टान्नं च सुधोपमम्
मणिश्रेष्ठं च रत्नं च ददौ तस्मै च हीरकम् । वाद्यं च वादयामास भद्रं नानाविधं तथा
ब्रह्मणान्भोजयामास कारयामास मङ्गलम् । वेदाश्च पाठयामास परमानन्दपूर्वकम्
शंकरं पूजयामास विप्रद्वारा परं विभूम् । नानोपहारैर्नैवेद्यैः पुष्पधूपप्रदीपकैः
चन्दनैर्वस्त्रताम्बूलैर्मधुगव्यघृतादिभिः । भवानीं पूजयामास श्रीवृन्दारण्यदेवताम्
षोडशोपचारैर्द्रव्यैर्बलिभिर्विविधैर्मुने । महिषाणां शते शुद्धं छागालानां सहस्रकम्
मेषाणामयुतं शुद्धं युक्तमादाय पञ्चकम् । ब्राह्मणेभ्यः स्वर्णशतं धेनुनां च शतं तथा
प्रददौ दक्षिणां तूर्ण कृष्णकल्याणहेतवे । उद्धवं पूजयामास सादरं च पुनः पुनः
समाश्वास्य यशोदां च रोहिणीं गोपबालकान् । वृद्धान्गोपालिकाः सर्वाः प्रययू रासमण्डलम्
ददर्श रासं रुचिरं चन्द्रमण्डलवर्तुलम् । श्रीरामकदलीस्तम्भशतकैरुपशोभितम्
युक्तैश्च स्निग्धवसनैश्चन्दनानां च पल्लवैः । पट्टसूत्रनिबद्धैश्च श्रीयुक्तमाल्यजालकैः
दधिलाजफलैः पट्टैः पुष्पैर्दूर्वाङ्कुरैरपि । चन्दनागुरुकस्तूरीकुङ्कुमैः परिसंस्कृतम्
वेष्टितं सक्षितं यत्नाद्गोपिकानां त्रिकोटिभिः । त्रिलक्षैः सुन्दरै रम्यैः संसक्तं रतिमन्दिरैः
लक्षगोपैः परिवृतं कृष्णागमनशङ्कितैः । यमुनां दक्षिणां कृत्वा प्रययौ मालतीवनम्
चन्दनानां चम्पकानां यूथिकानां तथैव च । केतकीमाधवीनां च वनं कृत्वा प्रदक्षिणम्