प्राणाधिकां राधिकां न कथं स्मरसि पुत्रक । वारमेकं स्वल्पदिनं गोकुलं गच्छ वत्सक
इत्येवमुक्तवा नन्दश्च क्रोडे कृष्णं चकार सः । नेत्राश्रुणा च पूर्णेन तं सिषेच शुचाऽन्वितः
चुचुम्ब तद्गण्डयुगं कृत्वा वक्षसि मोहतः । सानन्दः परमानदो भगवांस्तमुवाच सः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo नवतितमोऽध्यायः
अथैकनवतितमोऽध्यायः श्रीभगवानुवाच निषेकेन परिष्वङ्गो विभेदस्तेन वा भवेत् । क्षणेन दर्शनं तेन निषेकः केन वार्यते
गमनागमनार्थ चाप्युद्धवः कथयिष्यति । प्रस्थापयामि तं शीघ्रं विज्ञास्यसि ततः पितः
यशोदां रोहिणीं चैव गोपिकां गोपबालकान् । प्राणाधिकां राधिकां तां गत्वा संबोधयिष्यति
एतस्मिन्नन्तरे तत्र वसुदेवश्च देवकी । बलदेवश्चोद्धवश्च तथाऽक्रूरश्च सत्वरम्
वसुदेव उवाच नन्द त्वं बलवाञ्ज्ञानी सद्बन्धुश्च सखा मम । त्यज मोहं गृहं गच्छ वत्सस्तेऽयं यथा मम
दूरीभूता गोकुलाच्च मथुरा नास्ति बान्धव । महोत्सवे सदानन्दे नन्द द्रक्ष्यसि पुत्रकम्
देवक्युवाच यथाऽयमावयोः पुत्रस्तथैव भवतो ध्रुवम् । सालसः केन हे नन्द शुचा देहो हि लक्ष्यते
एकादशाब्दं सबलः स्थित्वा ते मन्दिरे सुखम् । कथं स्वल्पदिनेनैव शोकग्रस्तो भविष्यसि
तिष्ठ पुत्रेण सार्धं च मथुरायां कियद्दिनम् । पूर्णचन्द्राननं पश्य जन्म त्वं सफलं कुरु
श्रीभगवानुवाच घच्छोद्धव सुखं भद्रं भविष्यति तव प्रियम् । प्रहर्ष गोकुलं गत्वा यशोदां रोहिणीं प्रसूम्
गोपवालसमूहं च राधिकां गोपिकागणम् । प्रबोधयाऽऽध्यात्मिकेन मद्दत्तेन शुचश्छिदा
नन्दस्तिष्ठतु सानन्दं मन्मातुराज्ञया शुचा । नन्दस्थितिं सद्विनयं यशोदां कथयिष्यसि
इत्येवमुक्त्वा श्रीकृष्णः पित्रा मात्रा बलेन च । अक्रूरेण समं तूर्ण ययावभ्यन्तरं गृहम्
उद्धवो रजनीं स्थित्वा मथुरायां च नारद । प्रभाते प्रययौ शीघ्रं रम्यं वृन्दावनं वनम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदानाo एकनव- तितमोऽध्यायः
अथ द्विनवतितमोऽध्यायः नारायण उवाच श्रीकृष्णप्रेरितो हृष्टः प्रणम्य च गणेश्वरम् । स्मरन्नारायणं शंभुं दुर्गा लक्ष्मीं सरस्वतीम्
गङ्गां च मनसि ध्यात्वा दिमीशं तं महेश्वरम् । प्रजगामोद्धवश्चैव दृष्ट्वा मङ्गलमूचकम्
शुश्राव दुंदुभिं घण्टानादं शङ्खध्वनिं तथा । हरिशब्दं च संगीतं शुश्राव मङ्गलध्वनिम्
पतिपुत्रवतीं साध्वीं प्रदीपं माल्यदर्पणम् । परिबूर्णतमं कुम्भं दधिलाजफलानि च
दूर्वाङ्कुरं शुक्लधान्यं रजतं काञ्चनं मधु । ब्राह्मणानां समूहं च कृष्णसारं वृषं घृतम्
सद्योमांसं गजेन्द्रं च नृपेन्द्रं श्वेतघोटकम् । पताकां नकुलं चाषं शुक्लं पुष्पं च चन्दनम्
दृष्ट्वैवं पथि कल्याणं प्राप वृन्दावनं वनम् । ददर्श पुरतो वृक्षं भाण्डीरे वटमक्षयम्
स्निग्धपर्ण रक्तवर्ण पुण्यदं तीर्थमीप्सितम् । सुवेषान्बालकांश्चैव रत्नभूषणभूषितान्
वदतो बलकृष्णेति रुदतश्च शुचाऽन्वितान् । तानाश्वास्य ययौ दूरं प्रविश्य नगरं मुदा
ददर्श नन्दशिबिरं रचितं विश्वकर्मणा । मणिरत्नविनिर्माणं मुक्तामाणिक्यहीरकैः
परिच्छन्नं मनोरम्यं सद्रत्नकलशान्वितम् । द्वारं चित्रं विचित्राढ्यं दृष्ट्वा च प्रविवेश सः