मणीन्द्रसाररचितैः कपाटैर्दर्पणान्वितैः
षोडशद्वारसंयुक्तं सुदीप्तं रत्नदीपकैः
नानाचित्रविचित्राढ्ये वसन्तं वरमीश्वरम् 1.28.
शरन्मध्याह्नमार्त्तण्डप्रभामोचकलोचनम्
कोटिकन्दर्पलावण्यलीलानिन्दितमन्मथम्
सस्मितं मुरलीहस्तं सुप्रशस्तं सुमङ्गलम्
चन्दनोक्षितसर्वांगं कौस्तुभेन विराजितम्
त्रिभङ्गभङ्ग्या संयुक्तं मणिमाणिक्यभूषितम्
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम्
मुक्तापङ्क्तिसदृक्षाभदशनं सुमनोहरम्
वीक्षितं गोपिकाभिश्च वेष्टिताभिस्समन्ततः
भूषिताभिश्च सद्रत्ननिर्मितैर्भूषणैः परम्
ब्रह्मविष्णुशिवानन्तधर्माद्यैर्वन्दितं मुदा 1.28.
रासेश्वरं सुरसिकं राधावक्षस्थलस्थितम्
सततं ध्येयमस्माकं परमात्मानमीश्वरम्
स्वेच्छामयं निर्गुणं च निरीहं प्रकृतेः परम्
सर्वेश्वरं सर्वपूज्यं सर्वसिद्धिकरं प्रदम्
गोपवेषश्च गोपालैः पार्षदैः परिवेष्टितः
सर्वान्तरात्मा सर्वत्र प्रत्यक्षः सर्वगः स्मृतः सर्वात्मा च परं ब्रह्म तेन कृष्णः प्रकीर्तितः
कृषिश्च सर्ववचनो नकारश्चादिवाचकः
स एवांशेन भगवान्वैकुण्ठे च चतुर्भुजः
स एव कलया विष्णुः पाता च जगतां प्रभुः
एतत्ते कथितं सर्वं परब्रह्मस्वरूपकम् 1.28.
इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक
मुनिस्तोत्रेण सन्तुष्टो भगवानादिरच्युतः
मुनीन्द्रस्तं संप्रणम्य प्रहृष्टवदनेक्षणः
सौतिरुवाच ऋषिर्नारायणस्यैव बदरीवनसंयुतम्
नानावृक्षफलाकीर्णं पुंस्कोकिलरुतश्रुतम्
ऋषीन्द्रस्य प्रभावेण हिंसाभयविवर्जितम्
सिद्धेन्द्राणां मुनीन्द्राणामाश्रमाणां त्रिकोटिभिः