नद्यो नदाः कंदराश्च तडागाश्च सरोवराः । जलपद्मविहीनाश्च जलहीना धनास्तथा
अपत्यहीना नार्यश्च कामुक्यो जारसंयुताः । अश्वत्थच्छेदिनः सर्वे वृक्षहीना वसुंधरा
फलहीनाश्च तरवः शाखाः स्कन्धविहीनकाः । फलानि स्वादुहीनानि चान्नानि च जलानि च
मानवाः कटुवक्तारो निर्दया धर्मवर्जिताः । तदन्ते द्वादाशादित्याः संहरिष्यन्ति मानवान्
सर्वाञ्जन्तुंश्च तापेन बहुवृष्ट्या व्रजेश्वर । अवशिष्टा च पृथिवी कथामात्रावशेषिता
कलौ गते च पृथिवी क्षेत्रं वर्षागते तथा । पुनः सत्यप्रवृत्तिश्च भविष्यति क्रमेण वै
इत्येवं कथितं सर्वं गच्छ तात व्रजं सुखम् । अहं दुग्धमुखो बालःपुत्रस्ते कथयामि किम्
नवनीतं घृतं दुग्धं दधि तक्रं परिष्कृतम् । स्वस्तिकं शुभकर्मार्हं मिष्टान्नं च सुधोपमम्
मिष्टद्रव्यं च यत्किंचित्पितृदेवनिमित्तकम् । भुक्तं बलाच्च तत्सर्व बालानां रोदनं बलम्
तत्क्षमस्वापराधं मे बालदोषः पदे पदे । त्वं पिता तव पुत्रोऽहं यशोदा जननी मम
मदीयं परिहासं च यशोदां रोहिणीं वद । कुमारास्याच्छ्रुतं सर्व सोऽहमित्येवमीप्सितम्
कीर्तयिष्यसि तत्सर्व सर्व गोकुलवासिनम् । कालः करोति ससैर्ग बन्धूनां बन्धुभिः सह
कालः करोति विच्छेदं विरोधं प्रीतिमेव च । कालः सृष्टिं च कुरुते कालश्च परिपालनम्
कालः करोति सानन्दं कालः संहरते प्रजाः । सुखं दुःखं भयं शोकं जरां मृत्युं च जन्म च
सर्वं कर्मानुरोधेन काल एव करोति च । सर्वं कालकृतं तात विस्मयं न व्रजं व्रज
कुतस्त्वं गोकुले वैश्यो नन्दो वैश्याधिपो नृपः । वसुदेवसुतोऽचहं च मथुरायामहो कुतः
पिता मे कंसभीतेन त्वद्गृहे च समप्रितः । पितु परः पिता त्वं च माता मातुः पराऽपिवा
मया दत्तेन ज्ञानेन पार्वत्या च व्रजेश्वर । त्यज मोहं महाभाग गच्छ तात सुखं गृहम्
नन्द उवाच स्मर वृन्दावनं तात रम्यं पुण्यं महोत्सवम् । गोकुलं गोकुलं रम्यं सुन्दरं यमुनातटम्
रमणीनां सुरम्यं च त्वत्प्रियं रासमण्डलम् । गोपालिका गोपबालान्यशोदां रोहिणीं प्रियाम्
प्राणाधिकां राधिकां न कथं स्मरसि पुत्रक । वारमेकं स्वल्पदिनं गोकुलं गच्छ वत्सक
इत्येवमुक्तवा नन्दश्च क्रोडे कृष्णं चकार सः । नेत्राश्रुणा च पूर्णेन तं सिषेच शुचाऽन्वितः
चुचुम्ब तद्गण्डयुगं कृत्वा वक्षसि मोहतः । सानन्दः परमानदो भगवांस्तमुवाच सः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo नवतितमोऽध्यायः
अथैकनवतितमोऽध्यायः श्रीभगवानुवाच निषेकेन परिष्वङ्गो विभेदस्तेन वा भवेत् । क्षणेन दर्शनं तेन निषेकः केन वार्यते
गमनागमनार्थ चाप्युद्धवः कथयिष्यति । प्रस्थापयामि तं शीघ्रं विज्ञास्यसि ततः पितः
यशोदां रोहिणीं चैव गोपिकां गोपबालकान् । प्राणाधिकां राधिकां तां गत्वा संबोधयिष्यति
एतस्मिन्नन्तरे तत्र वसुदेवश्च देवकी । बलदेवश्चोद्धवश्च तथाऽक्रूरश्च सत्वरम्
वसुदेव उवाच नन्द त्वं बलवाञ्ज्ञानी सद्बन्धुश्च सखा मम । त्यज मोहं गृहं गच्छ वत्सस्तेऽयं यथा मम
दूरीभूता गोकुलाच्च मथुरा नास्ति बान्धव । महोत्सवे सदानन्दे नन्द द्रक्ष्यसि पुत्रकम्