जाराय दत्त्वा मिष्टान्नं ताम्बूलं वस्त्रचन्दनम् । न ददात्येव चाऽऽहारं स्वामिने दुःखिने पितः
पुत्रेण भर्त्सितस्तातः शिष्येण भर्त्सितो गुरुः । प्रजाभिस्ताडितो भूपो भूपेन पीडिताः प्रजाः
दस्युचोरेश्च दुष्टैश्च शिष्टाश्च परिपीडिताः । सस्यहीना च वसुधा क्षीरहीनाश्च धनेवः
स्वल्पक्षीरे घृतं नास्ति नवनीतं च नित्यशः । सत्यहीना जनाः सर्वे नित्यं मिथ्या वदन्ति च
शौचसंध्याशास्त्रहीना ब्राह्मणा वृषवाहकाः । सूपकाराश्च शूद्राणां शूद्राणां शवदाहकाः
शूद्रस्त्रीनिरताः शश्वच्छूद्रा विप्रवधूरताः । खादन्ति यस्य विप्रस्य भक्ष्यं च परिपाचकाः
मातुः परां तस्य पत्नीं शूद्रा गृह्णन्ति लम्पटाः । भृत्यश्च हत्वा राजानं स्वयं राजा भविष्यति
नारी हत्वा पतिं कामाद्भजेज्जारं च कौतुकात् । पुत्रश्च पितरं हत्वा स्वयं भूपो भविष्यति
सर्वे स्वच्छन्दनिरताः शिश्नोदरपरायणाः । वङ्खरा व्याधियुक्ताश्च कुत्सिताश्च कुचैलकाः
विक्षुण्णमन्त्रलिप्ताश्च मिथ्यामन्त्रप्रचारकाः । जातिहीनाश्च गुरवो वयोहीनाश्च निन्दकाः
राजानश्चापि मलेच्छाश्च यवना धर्मनिन्दकाः । सत्कीर्तिमपि साधूनां कुर्वन्त्युन्मूलनं मुदा
पितृदेवद्विजातीनामतिथीनां च नित्यशः । पूजा नास्ति गुरूणां च पित्रोश्च पूजनं स्त्रियाः
स्त्रीबन्धूनां गौरवं च स्त्रीणां च सततं पितः । चोरः सत्कुलजातिश्च ब्रह्मदेवस्वहारकः
मानं वहन्ति लोभेन युगधर्मेण कौतुकात् । देवायतनहीनं च जगत्सर्व भयाकुलम्
अराजकं च दुर्नीतं संततं कलिदोषतः । बुभृक्षिताः कुचैलाश्च दरिद्रा व्याधिनो नराः
कपर्दकघटाध्यक्षो राजेन्द्रो हि घटेश्वरः । वृद्धाङ्गुष्टसमा लोका वृक्षाःशाकसमास्तथा
तालानां नारिकेलाणां पनसानां तथैव च । फलानि सर्षपाण्येव तत्क्षुद्रं च ततः परम्
जलभाजनपात्रेण सस्येन वाससा तथा । विहीनं मन्दिरं सर्वं गृहाणामपरिष्कृतम्
गन्धकेन परिवृतं दीपहीनं तमेयुतम् । हिंस्रजन्तुभयाद्भीता जनाः सर्वे च पापिनः
सर्वे च कलहाविष्टा पुंश्चल्यः कलहप्रियाः । रूपवत्यो न कामिन्यो नराश्चापि न रूपिणः
नद्यो नदाः कंदराश्च तडागाश्च सरोवराः । जलपद्मविहीनाश्च जलहीना धनास्तथा
अपत्यहीना नार्यश्च कामुक्यो जारसंयुताः । अश्वत्थच्छेदिनः सर्वे वृक्षहीना वसुंधरा
फलहीनाश्च तरवः शाखाः स्कन्धविहीनकाः । फलानि स्वादुहीनानि चान्नानि च जलानि च
मानवाः कटुवक्तारो निर्दया धर्मवर्जिताः । तदन्ते द्वादाशादित्याः संहरिष्यन्ति मानवान्
सर्वाञ्जन्तुंश्च तापेन बहुवृष्ट्या व्रजेश्वर । अवशिष्टा च पृथिवी कथामात्रावशेषिता
कलौ गते च पृथिवी क्षेत्रं वर्षागते तथा । पुनः सत्यप्रवृत्तिश्च भविष्यति क्रमेण वै
इत्येवं कथितं सर्वं गच्छ तात व्रजं सुखम् । अहं दुग्धमुखो बालःपुत्रस्ते कथयामि किम्
नवनीतं घृतं दुग्धं दधि तक्रं परिष्कृतम् । स्वस्तिकं शुभकर्मार्हं मिष्टान्नं च सुधोपमम्
मिष्टद्रव्यं च यत्किंचित्पितृदेवनिमित्तकम् । भुक्तं बलाच्च तत्सर्व बालानां रोदनं बलम्
तत्क्षमस्वापराधं मे बालदोषः पदे पदे । त्वं पिता तव पुत्रोऽहं यशोदा जननी मम