पुरुषा योषितश्चापि न हि सूर्खाश्च पण्डिताः । न दुःखिनो जनाःसत्ये सर्वेषां रत्नमन्दिरम्
मणिमाणिक्यरत्नौघरत्नस्वर्णसमन्वितम् । न भिक्षुका न रोगार्ताः शोकहीनाश्चहर्षिताः
न हि भूषणहीराश्च नरा नार्यश्च केचन । न पापिनो न धूर्ताश्च न क्षुधार्ता न कुत्सिताः
जराहीनाः प्राणिनश्च शश्वद्यौवनसंस्थिताः । आधिव्याधिविहीनाश्च निर्विकाराश्च देहिनः
यदुक्तो वै सत्ययुगे धर्मः सत्यं दयादिकम् । पादहीनश्च त्रेतायां सत्यार्ध द्वापरेऽपि च
धर्मै कपाच्च प्रथमे कलेश्चातिकृशोऽबलः । दुष्टानां दस्युचौर्याणामङ्कुरः प्रभवेद्व्रज
अधर्मनिरताः केचिद्भीताः संगोपिनस्तथा । भीता गुप्ताश्च पुंश्चल्यौ भीताश्च पारदारिकाः
धर्मिष्ठानां भयं शश्वदधर्मिष्ठाश्च कम्पिताः । स्वल्पधर्मरता भूपाः स्वल्पवेदरता द्विजाः
व्रतधर्मरताः केचित्सर्वे स्वच्छन्दगामिनः । यावत्तिष्ठन्ति तीर्थानि यावत्तिष्ठन्ति साधवः
यावत्तिष्ठन्ति ग्रामाणां देवाः शास्त्राणि पूजनम् । तावत्किंचित्तपः सत्यं स्वर्गधर्माश एव च
कलेर्दोषनिधेस्तात गुण एको महानपि। मानसं संभवेत्पुण्यं सुकृतं न हि दृष्कृतम्
तीर्थादिके गते तात नष्टो धर्माश एव च । कलारूपश्च धर्मश्च यथा कुह्वां निशाकरः
नन्द उवाच तीर्थान्येतानि सर्वाणि तिष्ठन्त्येव कियद्दिनम् । साधवो ग्राम्यदेवाश्च शास्त्राण्येतानि वत्सक
श्रीकृष्ण उवाच कलौ दशसहस्राणि हरिस्तिष्ठति मेदिनीम् । देवानां प्रतिमा बूज्या शास्त्राणि च पुराणकम्
तदर्धमपि तीर्थानि गङ्गादीनि सुनिश्चितम् । तदर्ध ग्रामदेवाश्च वेदाश्च विदुषामपि
अधर्मः परिबूर्णश्च तदन्ते च कलौ पितः । एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च
न मन्त्रपूतोद्वाहश्च न हि सत्यं न य क्षमा । स्त्रीस्वीकाररतो नित्यं ग्राम्यधर्मप्रधानतः
न यज्ञसूत्रं तिलकं ब्राह्मणनां च नित्यशः । संध्याशास्त्रविहीनाश्च विप्रवंशाःश्रुता अपि
सर्वैः सार्ध च सर्वेषां भक्षणं नियमच्युतम् । अभक्ष्यभक्षा लोकाश्च चतुर्वर्णाश्च लम्पटाः
नारीषु न सती काचित्पुंश्चली च गृहे गृहे । करोति तर्जनं कान्तं भृत्यतुल्यं च कम्पितम्
जाराय दत्त्वा मिष्टान्नं ताम्बूलं वस्त्रचन्दनम् । न ददात्येव चाऽऽहारं स्वामिने दुःखिने पितः
पुत्रेण भर्त्सितस्तातः शिष्येण भर्त्सितो गुरुः । प्रजाभिस्ताडितो भूपो भूपेन पीडिताः प्रजाः
दस्युचोरेश्च दुष्टैश्च शिष्टाश्च परिपीडिताः । सस्यहीना च वसुधा क्षीरहीनाश्च धनेवः
स्वल्पक्षीरे घृतं नास्ति नवनीतं च नित्यशः । सत्यहीना जनाः सर्वे नित्यं मिथ्या वदन्ति च
शौचसंध्याशास्त्रहीना ब्राह्मणा वृषवाहकाः । सूपकाराश्च शूद्राणां शूद्राणां शवदाहकाः
शूद्रस्त्रीनिरताः शश्वच्छूद्रा विप्रवधूरताः । खादन्ति यस्य विप्रस्य भक्ष्यं च परिपाचकाः
मातुः परां तस्य पत्नीं शूद्रा गृह्णन्ति लम्पटाः । भृत्यश्च हत्वा राजानं स्वयं राजा भविष्यति
नारी हत्वा पतिं कामाद्भजेज्जारं च कौतुकात् । पुत्रश्च पितरं हत्वा स्वयं भूपो भविष्यति
सर्वे स्वच्छन्दनिरताः शिश्नोदरपरायणाः । वङ्खरा व्याधियुक्ताश्च कुत्सिताश्च कुचैलकाः
विक्षुण्णमन्त्रलिप्ताश्च मिथ्यामन्त्रप्रचारकाः । जातिहीनाश्च गुरवो वयोहीनाश्च निन्दकाः