नन्दस्य वचनं श्रुत्वा हृष्टः कमललोचनः । कथां कथितुमारेभे विचित्रां मधुरान्विताम्
इति श्रीब्रह्मo महाo श्रीकृष्ण जन्मखo उत्तo नारदनाo भगवन्न- न्दसंo एकोननवतितमोऽध्यायः
अथ नवतितमोऽध्यायः श्रीकृष्ण उवाच शृणु नन्द प्रवक्ष्यमि सानन्दं मानसं यथा । कथां रम्यां सुमधुरां पुराणेषु परिष्कृताम्
परिपूर्णतमो धर्मो धार्मिकाश्च कृते युगे । परिपूर्णतमं सत्यं परिपूर्णतमा दया
अतीव प्रज्वलद्रूपा वेदाश्चत्वार एव च । वेदाङ्गाश्चापि पिपिधासाश्चेतिहासाच संहिताः
पुराणानि सुरम्याणि पञ्चरात्राणि पञ्च च । रुचिराणि सुभद्राणि धर्मशास्त्राणि यानि च
विप्रा वेदविदः सर्वे पुण्यवन्तस्तपस्विनः । नारायणं ते ध्यायन्ति तन्मन्त्रं च जपन्ति च
ब्राह्मणाःक्षत्रिया वैश्याश्यतुर्वर्णाश्च वैष्णवाः । शूद्रा ब्राह्मणभृत्याश्च सत्यधर्मपरायणाछ
राजानो धार्मिकाश्चैव प्रजापालनतत्पराः । गृह्णान्त्येव प्रजानां च षोडशांशकराषृपाः
करशून्याश्च विप्राश्च पूज्याः स्वच्छन्दगामिनः । ततं सर्वसस्याढ्या रत्नाधारा वसुंधरा
गुरुभक्ताश्च शिष्याश्च पितृभक्ताः सुतास्तथा । योषितः पतिभक्ताश्च पतिव्रतपरायणाः
ऋतौ संभोगिनः सर्वे न स्त्रीलुब्धा न लम्मपटाः । न भयं दस्युचौर्याणां न तत्र पारदारिकाः
तरवः पूर्णफलिनः पूर्णक्षीराश्च धेनवः । बलवन्तो जनाः सर्वे दीर्घाः सौन्दर्यसंयुताः
लक्षवर्षायुषः केचित्पुण्यवन्तो क्ष्यरोगिणः । यथा विप्रा विष्णुभक्ता स्त्रिवर्णां विष्णुसेविनः
जलपूर्णा नदा नद्यः संततं कंदरास्तथा । तीर्थपूताश्चतुर्वर्णास्तपः पूता द्विजातयः
मनःपूताश्च निखिलाः खलहीनं जगत्त्रयम् । सत्कीर्तिपरिबूर्णं च यशस्यं मङ्गलान्वितम्
पितरः सर्वकालेषु तिथिकालेषु देवताः । सर्वकालेष्वतिथयः पूजिताश्च गृहे गृहे
त्रिवर्णा विप्रभक्ताश्च विप्रभोजतत्पराः । ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम्
नारायणोत्कीर्तनेन हर्षयुक्तास्तदुत्सवे । न शत्रवो जनानां च सर्वे सर्वंहितैषिणः
नाऽऽत्मप्रशंसकाः केचित्सर्वे परगुणोत्सुकाः । न देवानां द्विजानां च विदुषां तत्र निन्दकाः
पुरुषा योषितश्चापि न हि सूर्खाश्च पण्डिताः । न दुःखिनो जनाःसत्ये सर्वेषां रत्नमन्दिरम्
मणिमाणिक्यरत्नौघरत्नस्वर्णसमन्वितम् । न भिक्षुका न रोगार्ताः शोकहीनाश्चहर्षिताः
न हि भूषणहीराश्च नरा नार्यश्च केचन । न पापिनो न धूर्ताश्च न क्षुधार्ता न कुत्सिताः
जराहीनाः प्राणिनश्च शश्वद्यौवनसंस्थिताः । आधिव्याधिविहीनाश्च निर्विकाराश्च देहिनः
यदुक्तो वै सत्ययुगे धर्मः सत्यं दयादिकम् । पादहीनश्च त्रेतायां सत्यार्ध द्वापरेऽपि च
धर्मै कपाच्च प्रथमे कलेश्चातिकृशोऽबलः । दुष्टानां दस्युचौर्याणामङ्कुरः प्रभवेद्व्रज
अधर्मनिरताः केचिद्भीताः संगोपिनस्तथा । भीता गुप्ताश्च पुंश्चल्यौ भीताश्च पारदारिकाः
धर्मिष्ठानां भयं शश्वदधर्मिष्ठाश्च कम्पिताः । स्वल्पधर्मरता भूपाः स्वल्पवेदरता द्विजाः
व्रतधर्मरताः केचित्सर्वे स्वच्छन्दगामिनः । यावत्तिष्ठन्ति तीर्थानि यावत्तिष्ठन्ति साधवः
यावत्तिष्ठन्ति ग्रामाणां देवाः शास्त्राणि पूजनम् । तावत्किंचित्तपः सत्यं स्वर्गधर्माश एव च