इति श्रीब्रह्मo महाo श्रीकृष्मजन्मखo उत्तo नारदनाo भगवन्नन्दसंo अष्टाशीतितमोऽध्यायः
अथ नवाशीतितमोऽध्यायः श्रीकृष्ण उवाच गच्छ गच्छ गृहं गच्छ व्रजराज व्रजं व्रज । सर्वं तत्त्वं त्वया ज्ञातं दृष्टाश्च मुनयः सुराः
श्रुतं मे धन्यमाख्यानं नानाख्यानं सुदुर्लभम् । दुर्गायाः स्तोत्रराजं च जन्मपाशनिकृन्तनम्
स्थितं तते निगदितं हर्षेण च सुखेन च । मत्कृतं बालभावेन चापराद्धं च तत्क्षणम्
यत्सुखं न कृतं तात पित्रोश्च नृपमन्दिरे । कृतं सुखं तत्परं च स्वर्गादपि सुदुर्लभम्
मदीयं प्रियवाक्यं च प्रह्वत्वं विनयं नयम् । परिहासं बहतरं यशोदां गोपिकागणम्
बालकानां समूहं च राधां चापि विशेषतः । एकत्र च स्थितं तेषु बन्धुवर्गेषु कर्मणा
इहैवापि सुखं भुक्त्वा गच्छ गोलोकमुत्तमम् । सार्ध यशोदया तात रोहिण्या गोपिकागणैः
गोपानां बालकैः सार्धं वृषभानेन गोपकैः । राधामात्रा कलावत्या राधया सह यास्यसि
रथानां शतलक्षं च गोलोकादागतं पितः । अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम्
मणिमाणिक्यमुक्तानां मालाजालविभूषितम् । वह्निशुद्धांशुकै रम्यैराच्छन्नं पीतवर्णकैः
पार्षदप्रवरै रम्यैर्वेष्टितं श्वेतचामरैः । सद्रत्नदर्पणै रम्यैर्गोपिकाभिश्च गोपकैः
वेष्टितं च तदारुह्य कौतुकाद्यास्यसि ध्रुवम् । त्यक्त्वा च पार्थिवं देहं दिव्यदेहं विधाय च
अयोनिसंभवा राधा राधामाता कलावती । यास्यत्येव हि तेनैव नित्यदेहेन निश्चितम्
पितृणां मानसी कन्या धन्या मान्या कलावती । धन्या च सीतामाता च दुर्गामाता च मेनका
अयोनिसंभवा दुर्गा तारा सीता च सुन्दरी । अयोनिसंभवास्ताश्च धन्या मेना कलावती
इत्येव कथितं तात गोपनीयं सुदुर्लभम् । वरोऽयं तत्तस्तुभ्यं च मया च दुर्गया तथा
श्रीकृष्णस्य वचः श्रुत्वा प्रत्युवाच व्रजेश्वरः । पुनरेव जगन्नाथं त द्भक्तो भक्तवात्सलम्
नन्द उवाच युगानां च चतुर्णां च यं यं धर्म सनातनम् । क्रमेण कृष्ण विस्तीर्णं कृत्वा मां कथय प्रभो
कलिशेषे भवेद्यद्यद्गुणदोषं कलेस्तथा । का गतिर्वा पृथिव्याश्च धर्मस्य प्रणिनां तथा
नन्दस्य वचनं श्रुत्वा हृष्टः कमललोचनः । कथां कथितुमारेभे विचित्रां मधुरान्विताम्
इति श्रीब्रह्मo महाo श्रीकृष्ण जन्मखo उत्तo नारदनाo भगवन्न- न्दसंo एकोननवतितमोऽध्यायः
अथ नवतितमोऽध्यायः श्रीकृष्ण उवाच शृणु नन्द प्रवक्ष्यमि सानन्दं मानसं यथा । कथां रम्यां सुमधुरां पुराणेषु परिष्कृताम्
परिपूर्णतमो धर्मो धार्मिकाश्च कृते युगे । परिपूर्णतमं सत्यं परिपूर्णतमा दया
अतीव प्रज्वलद्रूपा वेदाश्चत्वार एव च । वेदाङ्गाश्चापि पिपिधासाश्चेतिहासाच संहिताः
पुराणानि सुरम्याणि पञ्चरात्राणि पञ्च च । रुचिराणि सुभद्राणि धर्मशास्त्राणि यानि च
विप्रा वेदविदः सर्वे पुण्यवन्तस्तपस्विनः । नारायणं ते ध्यायन्ति तन्मन्त्रं च जपन्ति च
ब्राह्मणाःक्षत्रिया वैश्याश्यतुर्वर्णाश्च वैष्णवाः । शूद्रा ब्राह्मणभृत्याश्च सत्यधर्मपरायणाछ
राजानो धार्मिकाश्चैव प्रजापालनतत्पराः । गृह्णान्त्येव प्रजानां च षोडशांशकराषृपाः
करशून्याश्च विप्राश्च पूज्याः स्वच्छन्दगामिनः । ततं सर्वसस्याढ्या रत्नाधारा वसुंधरा