ब्रह्मा शुभाशिषं चैव मुनयश्चापि हर्षिताः । ननृतुर्देवताः सर्वा जगुर्गन्धर्वकिन्नराः
एतस्मिन्नन्तरे तात स्तवराजमनुत्तमम् । विघ्नविघ्नकरं शीघ्रं शत्रुसंहारकारणम्
परमैश्वर्यजनकं सुखदं परमं शुभम् । निर्वाणमोक्षदं चैव हरिभक्तिप्रदं ध्रुवम्
गोलोकवासदं चैव सर्वसिद्धिप्रदं वरम् । स्तोत्रराजप्रपठनात्प्रसन्ना पार्वती सदा
लोभमोहकामक्रोधकर्ममूलनिकृन्तनम् । बलबुद्धिकरं चैव जन्ममृत्युविनाशनम्
धनपुत्रप्रियाभूमिसर्वसंपत्प्रदं नृणाम् । शोकदुःखहरं चैव सर्वामिद्धिप्रदं वरम्
स्तोत्रराजप्रपठनान्महावन्ध्या प्रसूयते । वन्धनान्मुच्यते दुःखी भयान्मुच्येत निश्चितम्
रोगाद्विमुच्यते रोगी दरिद्रश्च धनी भवेन् । दावाग्निमध्ये न मृतो मग्नः पोतो महार्णवे
दस्युग्रस्तो निपुग्रस्तो हिंस्रजन्तुसमन्वितः । स्तोत्रेणानेन वैश्येन्द्र कल्याणं लभते नरः
तैजसानां यथा रत्नमाश्रमाणां द्विजो यथा । नदीनां च यथा गङ्गा मन्त्राणां प्रणवो यथा
तुलसी सर्वपत्राणां धराणां च वसुंधरा । पुष्पाणां पारिजातं च काष्ठानां चन्दनं यथा
विष्णुपूजा च तपसां व्रतेष्वेकादशी यथा । ज्ञानिनां च यथा शंभुः सिद्धानां च गणेश्वरः
देवानां च यथा विष्णुर्वेदाः शास्त्रेषु तन्त्रतः । देवीनां च यथा दुर्गा शान्तानां कमला यथा
सरस्वती च विदुषां राधिका सुन्दरीषु च । तथा स्तोत्रेष्विदं स्तोत्रं नातः परतरं व्रज
पुरा दत्तं ब्रह्मणे च पुष्करे सूर्यपर्वणि । दैत्यग्रस्ताय भीताय सर्वदुर्गहरं परम्
शिवाय शत्रुग्रस्ताय ददौ ब्रह्मा मदाज्ञया । शिवश्च सनकादिभ्यः पुरा दुर्वाससे ददौ
सनत्कुमारो भगवान्कृपया गौतमाय च । पुलहाय पुलस्त्याय ददौ चाङ्गिरसे मुदा
तथा यन्द्राय सूर्याय सूर्यश्चापि यमाय च । यमाश्च चित्रगुप्ताय कृपया च पुरा ददौ
नित्यं पठिष्यसि स्तोत्रं गोलोकगमनाय वै । साक्षात्पश्यसि भो तात तामेव पार्वतीमिह
यस्मै कस्मै न दातव्यं पापिने गोपनं कुरु । नारायणस्य भक्ताय शान्ताय विदुषे तथा
सर्वज्ञाय च विप्राय दातव्यं च प्रयत्नतः । विप्राय वृषवाहाय वृषलीवतये तथा
शूद्राणां सूपकाराय शूद्रक्षाद्धान्नभोजिने । कन्याविक्रचिणे चैव ब्राह्मणाय विशेषतः
सर्वसिद्धिं च लभते सिद्धस्तोत्रे भवेद्यदि । दशायुतजपेनैव सिद्धस्तोत्रो भवेन्नरः
अग्निस्तमभं जलस्तम्भं मृत्स्तम्भं मनसस्तथा । अश्वमेधसहस्राच्च पृथिव्याश्च प्रदक्षिणात्
स्नानाच्च सर्वतीर्थानां स्तोत्रमेतच्च पुण्यदम् । दत्तं तुभ्यं मया तात मम प्राणसमं व्रज
स्तवनं कुरु पार्वत्याश्चेदानीं मम संसदि । श्रीकृष्णस्य वचः श्रुत्वा नन्दस्तुष्टाव पार्वतीम्
स्तोत्रेणानेन विप्रेन्द्र सर्वसंपत्प्रदायिनीम् । वरं तस्मै ददौ दुर्गा गोलोकवासमीप्सितम्
दुर्लभं परमं ज्ञानं वेदे यन्न श्रुतं मुने । राजेन्द्रत्वं गोकुले च कृष्णभक्तिं सुदुर्लभाम्
तद्दास्वं चावि परतो महत्त्वं सिद्धमेव च । वरं दत्त्वा ययौ दुर्गा संभाष्य शंभुना सह
जग्मुर्देवाश्च मुनयः स्तुत्वा च नन्दनन्दनम् । उवाच नन्दं श्रीकृष्णो व्रज नन्द व्रजान्वितः