कृपां कुरु महामाये मम शत्रुक्षयं कुरु । इत्युक्त्वा च सकरुणं रथस्थे पतिते रणे
आविर्बभूव सा दुर्गा सूर्यकोटिसमप्रभा । नारायणेन कृपया प्रेरिता परमात्मना
शिवस्य पुरतः शीघ्रं शिवाय च जयाय च । इत्युवाच महादेवी मायाशक्त्याऽसुरं जहि
दुर्गोवाच वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम् । भवान्वरः सुराणां च जयं तुभ्यं ददाम्यहम्
महादेव उवाच क्षयो भवतु दैत्यस्य इति मे वरमीश्वरी । देहीति वाञ्छितं दुर्गे परमाद्ये मलातनि
भगवत्युवाच हरिं स्मर महाभागा जय दैत्यं जगद्गुरुः । स्वयं विधाता भगवांस्त्वमेव ज्योतिरीश्वरः
एतस्मिन्नन्तरे विष्णुर्वृषरूपो बभूव ह । दधार कलया मूर्ध्ना शूलपाणे रथं विभुः
ऊर्ध्वचक्रमथोग्रं च प्रकृतिं च चकार सः । शस्त्रं ददौ मन्त्रपूतमुद्दधार ततो रथम्
शिवः शस्त्रं गृहीत्वा च ध्यात्वा विष्णुं महेश्वरीम् । जघान त्रिपुरं शीघ्रं स पपात महीतले
तुष्टुवुः शंकरं देवाश्चकुश्च पुष्पवर्षणम् । दुर्गा तस्मै ददौ शूरं पिनाकं विष्णुरेव च
ब्रह्मा शुभाशिषं चैव मुनयश्चापि हर्षिताः । ननृतुर्देवताः सर्वा जगुर्गन्धर्वकिन्नराः
एतस्मिन्नन्तरे तात स्तवराजमनुत्तमम् । विघ्नविघ्नकरं शीघ्रं शत्रुसंहारकारणम्
परमैश्वर्यजनकं सुखदं परमं शुभम् । निर्वाणमोक्षदं चैव हरिभक्तिप्रदं ध्रुवम्
गोलोकवासदं चैव सर्वसिद्धिप्रदं वरम् । स्तोत्रराजप्रपठनात्प्रसन्ना पार्वती सदा
लोभमोहकामक्रोधकर्ममूलनिकृन्तनम् । बलबुद्धिकरं चैव जन्ममृत्युविनाशनम्
धनपुत्रप्रियाभूमिसर्वसंपत्प्रदं नृणाम् । शोकदुःखहरं चैव सर्वामिद्धिप्रदं वरम्
स्तोत्रराजप्रपठनान्महावन्ध्या प्रसूयते । वन्धनान्मुच्यते दुःखी भयान्मुच्येत निश्चितम्
रोगाद्विमुच्यते रोगी दरिद्रश्च धनी भवेन् । दावाग्निमध्ये न मृतो मग्नः पोतो महार्णवे
दस्युग्रस्तो निपुग्रस्तो हिंस्रजन्तुसमन्वितः । स्तोत्रेणानेन वैश्येन्द्र कल्याणं लभते नरः
तैजसानां यथा रत्नमाश्रमाणां द्विजो यथा । नदीनां च यथा गङ्गा मन्त्राणां प्रणवो यथा
तुलसी सर्वपत्राणां धराणां च वसुंधरा । पुष्पाणां पारिजातं च काष्ठानां चन्दनं यथा
विष्णुपूजा च तपसां व्रतेष्वेकादशी यथा । ज्ञानिनां च यथा शंभुः सिद्धानां च गणेश्वरः
देवानां च यथा विष्णुर्वेदाः शास्त्रेषु तन्त्रतः । देवीनां च यथा दुर्गा शान्तानां कमला यथा
सरस्वती च विदुषां राधिका सुन्दरीषु च । तथा स्तोत्रेष्विदं स्तोत्रं नातः परतरं व्रज
पुरा दत्तं ब्रह्मणे च पुष्करे सूर्यपर्वणि । दैत्यग्रस्ताय भीताय सर्वदुर्गहरं परम्
शिवाय शत्रुग्रस्ताय ददौ ब्रह्मा मदाज्ञया । शिवश्च सनकादिभ्यः पुरा दुर्वाससे ददौ
सनत्कुमारो भगवान्कृपया गौतमाय च । पुलहाय पुलस्त्याय ददौ चाङ्गिरसे मुदा
तथा यन्द्राय सूर्याय सूर्यश्चापि यमाय च । यमाश्च चित्रगुप्ताय कृपया च पुरा ददौ
नित्यं पठिष्यसि स्तोत्रं गोलोकगमनाय वै । साक्षात्पश्यसि भो तात तामेव पार्वतीमिह
यस्मै कस्मै न दातव्यं पापिने गोपनं कुरु । नारायणस्य भक्ताय शान्ताय विदुषे तथा