स्तोत्रमेकं महादेव्या जगन्मातुर्जगत्प्रभो । परं दुर्गतिनाशिन्या गोपनीयं सुदुर्लभम्
देहि मर्ह्य विनीताय भक्ताय भक्तवत्सल । वेदानां जनकस्त्वं च निर्गुणाश्च परात्परः
श्रीभगवानुवाच श्रुणु वक्ष्यामि दैश्येन्द्र स्तोत्रं यत्परमाद्भुतम् । सर्वविघ्नविनाशार्थं मोहपाशनिकृन्तनम्
रणत्रस्तेन विभुना शंकरेण पुरा कृतम् । नारायणोपदेशेन प्रेरितेन च ब्रह्मणा
शत्रुग्रस्तं शिवं दृष्ट्वा स ब्रह्माणमुवाच ह । उवाच शंकरं ब्रह्मा रथस्थं पतितं रणे
सुरसंकटशान्त्यर्थं दुर्गा दुर्गतिनाशिनीम् । मूलप्रकृतिमाद्यां तां स्तौ(स्तु) हि ब्रह्मस्वरूपिणीम्
हरिणा प्रेरितोऽहं च त्वां वदामि सुरेश्वर । विना शक्तिसहायेन को वा कं जेतुमीश्वरः
ब्रह्मणश्च वचः श्रुत्वा दुर्गां सस्मार शंकरः । पुटाञ्जलिपरो भूत्वा भक्तिनम्रत्मकंधरः
स्नातःपादौ च प्रक्षाल्य धृत्वा धौते वाससी । आचान्तः कुशहस्तश्च शुचिर्विष्णुं च संस्मरन्
महादेव उवाच रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि । मां भक्तमनुरक्तं च शत्रुग्रस्ते कृपामयि
विष्णुमाये महाभागे नारायणि सनातनि । ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणि
त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके । त्वं संहारे च गुणतो निराकारे च निर्गुणात्
मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् । तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि
वेदानां जननी त्वं च सावित्री च परात्परा । वैकुण्ठे च महालक्ष्मीः सर्वमंपत्स्वरूपिणी
मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः । स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले
नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता । सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी
रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती । प्राणानामधिदेपी त्वं कृष्णस्य परमात्मनः
गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि । गोलोकाधिष्ठिता देवी दृन्दा दृन्दावने वने
श्रीरासमण्डले रम्या वृन्दावनविनोदिनी । शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च
दक्षकन्या कुत्रकल्पे कुत्रकल्पे च शैलजा । देवमाताऽदितिस्त्वं च सर्वाधारा वसुंधरा
त्वमेव गङ्गा तुलसी त्वं च स्वाहा सती । त्वदंशांशांशकलया सर्वदेवादियोषितः
स्त्रीरूपं चातिपुंरूपं देवि त्वं च नपुंसकम् । वृक्षाणां वृङरूपा त्वं सृष्टा चाङ्कुररूपिणी
वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी । सूर्ये तेजः स्वरूपा च प्रभारूपा च संततम्
गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी । शोभास्वरूपा चन्द्रे च पद्मसंघे च निश्चितम्
सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका । महामारी च संहारे जले च जलरूपिणी
क्षुत्तवं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी । तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धास्त्वं च क्षमा स्वयम्
शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्तवं कीर्तिरेव च । लज्जा त्वं च तथा माया भुक्ति-
सर्वशक्तिस्वरूपा त्वं सर्वसंबत्प्रदायिनी । वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन
सहस्र वक्त्रस्त्वां स्तोतुं न च शक्तः सुरेश्वरि । वेदा न शक्ताः को विद्वान्न च शक्ता सरस्वती
स्वयं विधाता शक्तो न न च विष्णुः मनातनः । किं स्तौमि पञ्चवक्त्रैस्तु रणत्रस्तो महेश्वरि