निम्नगासु यथा गङगा तीर्थेषु पुष्करं यथा । वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः
वेदो नारायणः साक्षाद्वयं पूज्या व्यवस्थया । तस्माच्छास्त्राणि सर्वाणि पुराणानि च सन्ति वै
यस्मान्निरूपितो धर्मश्चेतिहासश्च संहिता । तस्माद्धन्याश्च ते वेदा वदन्त्यत्र मनीषिणाः
यूयं धन्याश्च मान्याश्चेत्युक्ता वेदा मया ततः । ऊयुस्ते न वयं धन्या यज्ञसंघश्य सांप्रतम्
वयं व्यवस्थाकर्तारो यज्ञौघः फलदः स्वयम् । तस्माद्धन्यः स एवापि गच्छ गच्छ महामुने
धन्योऽसि यज्ञसंघोऽसीत्युक्तस्तत्र मया विभो । ऊचुस्ते न वयं धन्या धन्यं कर्म शुभं मुने
शुभकर्मासि धन्यं त्वं नाहं धन्यमुवाच तत् । कर्मणां फलदाता यः कर्महेतुश्च सांप्रतम्
धातुर्विधाता भगवान्सर्वादिः सर्वकारकः । श्रीकृष्णः परमात्मा च धन्यो मान्यश्चनिश्चितम्
धर्मालयं ततो गत्वा न दुष्ट्वा जगदीश्वरम् । मथुरामागतो द्रष्टुं परिपूर्णतम् प्रभुम्
यज्ञानां तपसां चैव व्रतानां शुभकर्मणाम् । ईश्वरं फलदातारं परमात्मानमेव च
कारणं कारणानां च ब्रह्मादीनां पुरःसरम् । धन्योऽसीति मयोक्तश्च दक्षिणाभिः सहेति च
इत्युक्तेन भगवता कथितं सर्वकारणम् । दक्षिणाभिश्च फलदो हतयज्ञो ङ्यदक्षिणाः
दक्षिणा विप्रमुद्दिश्य तत्काले तु न दीयते । एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत्
मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् । संवत्सरे व्यतीते तु स दाता नरकं व्रजेत्
वर्षाणां च सहस्रं च मूत्रकुण्डे निपत्य च । ततश्चाण़्डालतां याति व्याधियुक्तश्च पातकी
दात्रा न दीयते दानं ग्रहीत्रा चेन्न गृह्यते । उभौ तौ नरकं प्राप्तौ वर्षाणां च सहस्रकम्
यजमानश्च चाण्डालो ब्रह्मणस्तत्पुरोहितः । व्याधियुक्तावुभौ तौ च पापिनौ कर्मणः फलात्
सर्वे देवाश्च मुनयो जहसुर्विस्मयं ययुः । विस्मयं च ययौ नन्दस्तत्याज पुत्रभावकम्
रुरोद च सभामध्ये लज्जाहीनः शुचाऽऽकुलः । त्यज मौहमितीत्युक्त्वा बोधयामास पार्वती
नन्द उवाच अमूल्यरत्नं माणिक्यं यथा कुजन्मनो गृहे । स्थितं तेन च देवेश तथाऽहं वञ्चितः प्रभो
ममापराधं भगवान् क्षमस्व प्रकृतेः पर । यास्यामि न पुनर्गेहं गोकुलं यमुनातटम्
वृन्दावनं तथाऽऽवासं क्रीडावासं गदाग्रज । तत्सर्वं च यशोदाया गोपिकान्तिकमेव च
किं ब्रवीमि यशोदां य प्रेयसीं राधिकामपि । प्रेमपात्रं च बालौघं वद भोः कथयामि किम्
इत्युक्त्वा च सभामध्ये मर्च्छां संप्राप नारद । क्रोडे कृत्वा जगन्नाथो बोधयामास तत्क्षणम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo सप्ताशीतितमोऽध्यायः
अथाष्टाशीतितमोऽध्यायः श्रीकृष्णा उवाच चेतनं कुरु हे तात हे तात चेतनं कुरु । जलबुद्बुदवत्सर्वं संसारं सचराचरम्
त्याज मोहं महाभाग मायां स्तौहि परत्परामा । ब्रह्मस्वरूपां परमां सर्वमोहनिकृन्तनीम्
मुक्तिप्रदां महाभागां विष्णुमायां सनातनीम् । त्रिपुरस्य वधे घोरे महायुद्धे भयाकुले
येन स्तोत्रेण संभुश्च तया दैत्यं जघान सः । स्तोत्रराजं प्रदास्यामि सर्वमोहनिकृन्तनम्
नन्द उवाच सर्वविघ्नविनाशाय दुःखप्रशमनाय च । विभूतये च यशसे नृणां वाञ्छितसिद्धये