वासुदेवेति तन्नाम वेदेषु च चतुर्षु च । पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते
रक्तवीर्याश्रितो देहः क्व ते वेदे निरूपितः । साक्षिणो मुनयश्चैव धर्मः सर्वत्र एव च
साक्षिणो मम वेदाश्च रविचन्दौ च संप्रतम्
भृगुरुवाच सत्यं वदसि त्वमेव वैष्णवाग्रणीः । स्वागतं कुशलं शश्वत्किंनिमित्तमिहाऽऽगतः
सनत्कुमार उवाच श्रूयतां मुनयः सर्वे श्रूयतां कृष्ण सांप्रतम् । अहो येन निमित्तेन चातिशीघ्रमिहाऽऽगतः
श्रीकृष्ण उवाच भगवन्मर्वधर्मज्ञ किंनिमित्तमिहाऽऽगतः । सर्वं जानासि सर्वज्ञ त्वमेव विदुषां वरः
सनत्कुमार उवाच धन्योऽसि भगवञ्छश्वन्मान्योऽसि जगतामपि । सर्वेश्वरेश्वरोऽसि त्वं तत्परो नास्ति विश्वतः
श्रीकृष्ण उवाच यज्ञानां च व्रतानां च तपस्यानां द्विजेश्वर। सततं फलदाताऽहं दक्षिणाभिः सहेति य
इति श्रुत्वा कुमारश्च जवेन प्रययौ वने । मत्वाऽऽश्चर्य च वचनं वारयामास तेऽपितम्
ऋषय ऊचुः हे सिद्धेन्द्र महाभाग कुमार करुणामय । का शङ्कितकथा प्रोक्ता भगवत्कृष्णसंनिधौ
किं पुत्र दृष्टमाश्चर्य श्रुतं किमपि कुत्रचित् । अतीव कृत्वा विस्तीर्णमस्माकं वक्तुमर्हसि
एत स्मिन्न्नतरे ब्रह्मा पार्वत्या सह शंकरः । अनन्तश्चापि धर्मश्च श्रीसूर्यश्च निशाकरः
आदित्या वसवो रुद्रा दिक्पालाद्याश्च देवताः । श्रीकृष्णः सहसोत्थाय संभाध्य चपृथक्पृथकु
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः । प्रणेसुर्ऋषयः सर्वे शेषं शंभुं विधिं शिवाम्
परस्परं च संभाषा बभूव द्विजदेवयोः । समुवासाऽऽसने मध्ये कुमारः कनकप्रभः
मया गतश्च गोलोको न दृष्टो राधिकापतिः । ततो गतं च वैकुण्ठं तत्र नास्ति चतुर्भुजः
ततो गतश्च क्षीरोदस्तत्र नास्ति हरिः स्वयम् । परिश्रान्तो विषण्णश्च स्नातं क्षीरोदधेस्तटे
विस्तीर्णवालुकामध्ये कच्छपः शतयोजनः । भीतश्च कम्पितस्तत्र दृष्टो दुःखी च शुष्कितः
निःसारितो राघवेण मीनेन च महात्मना । धन्योऽसीति मयोक्तश्च नाहं धन्य उवाच सः
क्षीरोदः सागरो धन्यो जन्तवो यत्र मद्विधाः । मत्तो महत्तराश्चापि ह्यसंख्याश्च महामुने
भवान्धन्योऽस्ति क्षीरोद तेनोक्तो नाहमेव च । धन्या वसुंधरा देवी यत्रैव सप्तसागराः
धन्याऽसि वसुधेत्युक्ता नाहमेवेत्युवाच सा । धन्योऽनन्तो ममाऽऽधारः कृष्णांशो नागराड्विभुः
महस्रमूर्ध्ना मध्येऽहं मूर्ध्नि शूर्पे च सर्षपः । धन्योऽसि शेषेत्युक्तोऽयं धन्यो नाहमुवाच वै
धन्यः कूर्मो ममाऽऽधारो गच्छ तत्रैव वै मुने । धन्योऽसि कूर्मेत्युक्तोऽयं नारं धन्योऽस्मि वै मुने
वायुना धार्यमाणोऽहं मत्तो धन्यतमश्च सः । धन्योऽसीत्युक्तः पवनो धन्यो नाहमुवाच सः
धन्यश्च भगवान्ब्रह्मा विधाता जगतामपि । धन्योऽसि तत्र धाता च धन्यो नाहमुवाचसः
धन्यो महेश्वरो देवो योगीन्द्राणां गुरोर्गुरुः । सर्वाराध्यः सर्वपूज्यो धर्मरूपः सनातनः
कालकालश्च संहर्ता स्वयं मृत्युंजयः प्रभुः । धन्योऽसि तत्र शंभुश्च धन्यो नाहमुवाच सः
सर्वादौ पूजनं यस्य ज्ञानिनां च गुरोर्गुरुः । धन्यो गणेश्वरो देवो देवानां प्रवरः परः
सिद्धेन्द्रेषु मुनीन्द्रेषु देवेन्द्रेषु श्रुतौ श्रुतम् । योगीन्द्रेषु च प्राज्ञेषु न गणेशात्परः पुमान्