अथ सप्ताशीतितमोध्यायः नन्द उवाच त्वां ज्ञातुं नहि शक्ताश्च वेदा वेदप्रभुं स्वयम् । सुरा ब्रह्मेशसेषाद्या मुनिसिद्धादयस्तथा
को भवानिति विज्ञातुं परं कौतूहलं मम । तत्सर्व स्वात्मयाथार्थ्यं निर्जने कथय प्रभो
नारायण उवाच एतस्मिन्नन्तरे तत्र कृष्णं द्रष्टुं मुनीश्वराः । आजग्मुः सहसा वत्स ज्वलन्तो ब्रह्मतेजसा
पुलहश्च पुलस्त्यश्च क्रतुश्च भृगुरङ्गिराः । प्रचेताश्च वसिष्ठश्च दुर्वासाः कण्व एव च
कात्यायनः पाणिनिश्च कणादो गौतमस्तथा । सनकश्च सनन्दश्च दृतीयश्च सनातनः
कपिलश्चाऽऽसुरिश्चैव वायुः पञ्चशिखस्तथा । विश्वामित्रो वाल्मीकिश्च कश्यपश्च पराशरः
विभाण्डको मरीचिश्च शुक्रौऽत्रिश्च बृहस्पतिः । गार्ग्यश्यापि तथा वात्स्यो व्यासश्च जैमिनिस्तथा
मितवागृष्यशृङ्गश्च याज्ञवल्क्यः शुकस्तथा । सौभरिः शुद्धजटिलो भरद्वाजः सुभद्रकः
मार्कण्डेयो लोमशश्च आसुरिश्च विटङ्कणः । अष्टावक्र शतानन्दो वामदेश्च भासुरिः
संवर्तश्चाप्युतथ्यश्च नरोऽहं चापि नारद । जाबालिः पर्शुरामश्चाप्यगस्त्यः पैल एव च
युधामन्युर्गौ रमुखोऽप्युपमन्युः श्रृतश्रवाः । मैत्रेयश्च्यवनश्चैव वररुच्यर्षिरेव च
तान्दृष्ट्वा सहसोत्थाय नमस्कृत्य पुटाञ्जलिः । सिंहासनेषु रम्येषु वासयामास सादरम्
पूजयामास विधिवत्कुशलप्रश्नपूर्वकम् । परस्परं च संभाष्य मध्ये कृष्ण उवास सः
एतस्मिन्नन्तरे कृष्णस्तेजोराशिं ददर्श सः । ददुशुस्ते च मुनयोऽप्याकाशे च समुज्ज्वलम्
तेजसोऽभ्यन्तरे वत्स कुमारं कनकप्रभाम् । यथैव पञ्चवर्षीयं नग्नं बालकमीप्सितम्
आविर्बभूव सहसा समामध्ये च नारद । उत्तिष्टमानं सहसा तं दृष्ट्वा मुनपुंगवाः
प्रणेमुर्मुनयः सर्वे शौरिश्च प्रणनाम तम् । सस्मितं स्निग्धनेत्रं चकृत्वा युक्तिं च सादरम्
स सर्वानाशिषं कृत्वा समुवास च संसदि । उवाच तांश्च शौरिं च भगवन्तं सनातनम्
सनत्कुमार उवाच भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् । कृष्णस्य कुशलप्रश्नं सिवबीजस्य निष्फलम्
सांप्रतं कुशुलं वश्च दर्शनं परमात्मनः । भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि
निर्गुणास्य निरीहस्य सर्वबीजस्य तेयसा । भारावतरणायैव चाऽऽविर्भूतस्य सांप्रतम्
श्रीकृष्ण उवाच शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् । तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते
सनत्कुमार उवाच शरीरे प्राकृते नाथ संततं च शुभाशुभम् । नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम्
श्रीभगवानुवाच यो यो विग्रहधारी च स च प्राकृतिकः स्मृताः । देहो न विद्यते विप्र तां नित्यां प्राकृतिं विना
सनत्कुमार उवाच रक्तबिन्दूद्भवा देहास्ते च प्राकृतिका स्मृताः । कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः
सर्वबीजस्य सर्वादिर्भवांश्च भगवान्स्वयम् । सर्वेषामवतारणां प्रधानं बीजमव्ययम्
कृत्वा वदन्ति वेदाश्च नित्यं सत्यं सनातनम् । ज्योतिःस्वरूपं प्रधानं बीजमव्ययम्
मायया सगुणं चैव मायेशं निर्गुणं परम् । प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो
श्रीकृष्ण उवाच संप्रतं वासुदेवोऽहं रक्तपीर्याश्रितं वपुः । कथं न प्रकृतो विप्र शिवप्रश्नमभीप्सितम्
सनत्कुमार उवाच वासुः सर्वनिवासश्च विश्वानि यस्य लोमसु । तस्य देवः परं ब्रह्म वासुदेव इतीरितः