मितं ददाति हि पिता मितं भ्रादा मितं सुतः । मितं बन्धुर्मितं माता सर्वदाता पतिः प्रभुः
इत्येवमुक्त्वा सा देवी तत्र तस्थौ रुरोद च । उवाच वृन्दां णगवान्सर्वात्मा प्रकृतेः परः
श्रीभगवानुवाच त्वयाऽऽयुस्तपसा लब्धं यावदायुश्च ब्रह्मणः । तदेव देहि धर्माय गोलोकं गच्छ सुन्दरि
तन्वाऽनया च तपसा पश्चान्मां च लभिष्यसि । पश्चाद्गोलोकमागत्य वाराहे च वरानने
वृषभानसुता त्वं च राधाच्छाया भविष्यसि । मत्कलांशश्च रायाणस्त्वां विवाह ग्रहीष्यति
मां लभिष्यसि रासे च गोपीभी राधया सह । राधा श्रीदामशापेन वृषभानसुता यदा
सा चैव वास्तवी राधा त्वं च च्छायास्वरुपिणी । विवाहकाले रायाणस्त्वां च च्छायां ग्रहीष्यति
त्वां दत्त्वा वास्तवी राधा साऽन्तर्धाना भविष्यति । राधैवेति विमूढाश्च विज्ञास्यन्ति
स्वप्ने राधापदाम्भोजं न रि पश्यन्ति बल्लवाः । स्वयं राधा मम क्रोडे छाया रायाणकामिनी
विष्णोश्च वचनं श्रुत्वा ददावायुश्च सुन्दरी । उत्तस्थौ पूर्ण धर्मश्च तप्तकाञ्चनसंनिभः
वृन्दोवाच देवाः शृणुत मद्वाक्यं दुर्लङ्घ्यं सावधानतः । न हि मिथ्या भवेद्वाक्यं मदीयं च निशामय
क्षयो भवेति वाक्यं च मयोक्तं कोपभीतया । वारत्रयं पुनर्वक्तुं वारयामास भास्करः
सत्ये च परिपूर्णोऽयं यथापूर्वो यथाऽधुना । त्रिपादश्चापि त्रेतायां द्वापदो द्विपरे तथा
एकपादश्च दर्मोऽयं कलेश्च प्रथमे हरे । शेषे कलाषोडशांशः पुनः सत्ये यथा पुरा
त्रिर्निर्गतं मम मुखात्क्षयस्तेन ततः क्रमात् । पुनरुक्ते च मनसि वारयामास भास्करः
तेनैव रेतुनाऽयं च करिशेषे कलामयः । तथा शप्तः स्थितो दुर्गे कलिशेषे तथा ध्रुवम्
एतस्मिन्नन्तरे नन्द ददृशुर्देवता रथम् । गोलोकादागतं वेगादतीव सुन्दरं शुभम्
अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम् । मणिमाणिक्यमुक्ताभिर्वस्त्रैश्च श्वेतचामरै
विभूषितं भूषणौश्च रुचिरै स्तनदर्पणैः । नत्वा हरिं हरं वृन्दा ब्रह्माणं सर्वदेवताः
समारुङ्य रथं दृष्ट्वा गोलोकं च जगाम सा । देवा जग्मुश्च स्वस्थानं किं भूयः श्रोतुमिच्छसि
अथ सप्ताशीतितमोध्यायः नन्द उवाच त्वां ज्ञातुं नहि शक्ताश्च वेदा वेदप्रभुं स्वयम् । सुरा ब्रह्मेशसेषाद्या मुनिसिद्धादयस्तथा
को भवानिति विज्ञातुं परं कौतूहलं मम । तत्सर्व स्वात्मयाथार्थ्यं निर्जने कथय प्रभो
नारायण उवाच एतस्मिन्नन्तरे तत्र कृष्णं द्रष्टुं मुनीश्वराः । आजग्मुः सहसा वत्स ज्वलन्तो ब्रह्मतेजसा
पुलहश्च पुलस्त्यश्च क्रतुश्च भृगुरङ्गिराः । प्रचेताश्च वसिष्ठश्च दुर्वासाः कण्व एव च
कात्यायनः पाणिनिश्च कणादो गौतमस्तथा । सनकश्च सनन्दश्च दृतीयश्च सनातनः
कपिलश्चाऽऽसुरिश्चैव वायुः पञ्चशिखस्तथा । विश्वामित्रो वाल्मीकिश्च कश्यपश्च पराशरः
विभाण्डको मरीचिश्च शुक्रौऽत्रिश्च बृहस्पतिः । गार्ग्यश्यापि तथा वात्स्यो व्यासश्च जैमिनिस्तथा
मितवागृष्यशृङ्गश्च याज्ञवल्क्यः शुकस्तथा । सौभरिः शुद्धजटिलो भरद्वाजः सुभद्रकः
मार्कण्डेयो लोमशश्च आसुरिश्च विटङ्कणः । अष्टावक्र शतानन्दो वामदेश्च भासुरिः
संवर्तश्चाप्युतथ्यश्च नरोऽहं चापि नारद । जाबालिः पर्शुरामश्चाप्यगस्त्यः पैल एव च