ब्रह्मा शंभुर्भगवती दुर्गा रक्षति मां सदा । येन शुक्लीकृता हंसाः शुकाश्च हरिताः कृताः
मयूराश्चित्रिता येन स मे रक्षां करिष्यति । अनाथबालवृद्धानां रक्षकाः सर्वदेवताः
नारीबुद्व्या न मां धर्मस्त्यक्त्वा गच्छेद्धि सर्वदा । मां मातरं परित्यज्य गच्छ वत्स यथासुखम्
इत्येवमुक्त्वा देवी सा तस्थौ तत्र धरा यथा । आगच्छन्तं च संभोक्तुं मा यान्तं बोधनेन च
शशापेति च सा कोपाद्ब्रह्मपन्धो क्षयो भव । क्षयो भव दुराचार हे पापिष्ठ क्षयो भव
पुनः शप्तं स्वयं सूर्यो वारयामास यत्नतः । एतसिमन्नन्तरे तात तत्रव जगदीश्वराः
आजग्मुरतिसंत्रस्ता ब्रह्मविष्णुशिवादयः । धर्म दृष्ट्वा कलारूपं रुरुदुस्त्रिदशेश्वराः
कृत्वा क्रोडेऽतीव कृशं कुह्वा भीतं यथा विधुम् । निश्चेष्टं मलिनं दग्धं सतीकोपाग्निना व्रज
श्रीभवानुवाच क्षमस्व वृन्दे मद्भक्ते जन्ममृत्युजराहरे । धर्म जीवय मद्भक्तं रक्ष धर्म पतिव्रते
ब्रह्मोवाच ध्वान्तपूर्ण जगत्सर्दं विना धर्म बभूव ह । कम्पितौ चन्द्रसूर्यौ च शेषश्चापि वसुंधरा
महदेव उवाच प्रनष्टं च जगत्सर्वं विना धर्मेण सुन्दरि । धर्मं जीवय भद्रं ते स्वस्ति तेऽस्तु वरानने
सूर्य उवाच वरं वृष्णीष्व भद्रं ते यत्ते मनसि वाञ्छितम् । धर्मं जीवय भद्रं ते रक्ष सृष्टिं पतिव्रते
अनन्त उवाच धर्मं करोषि तपसा कथं धर्मं विहसि च । धर्मं जीवय भद्रं ते सर्वधर्मो भवेत्तव
चन्द्र उवाच द्विजरूपधरो धर्मस्त्वां परीक्षितुमागतः । ब्रह्मणा प्रेरितश्चैव निर्दोषश्च विहिंसितः
महेन्द्र उवाच तपसोपान्जितो धर्मो धर्मेण च फलं नृपाम् । कथं फलं च तपसां यदि धर्मः क्षयं गतः
वरुण उवाच धर्मं जीवय धर्मिष्ठे धर्मं रक्ष सनातनम् । निष्फलं कर्मिणां कर्म विना धर्मेणा धार्मिके
पवन उवाच जगत्पूतं कुरु शुभे धर्मं जौवय सांप्रतम् । धर्मे प्रनष्टे तपसां तवापूर्वं विनङ्क्ष्यति
वह्निरुवाच स्वधर्मोपार्जनं कर्तुमागताऽसि च भारतम् । विहंसि धर्ममज्ञात्वा पुनर्जीवय सुन्दरि
यम उवाच वेदोक्तकर्मकर्तणासहं विश्वे वरानने । धर्मानुसारात्फलदो धर्म जीवय सत्वरम्
देवानां वचनं क्षुत्वा समुत्थाय पतिव्रता । नमस्कृत्य सुरेशांश्चतानुवाच तपस्विनी
वृन्दोवाच अहं देवा न जानामि धर्मं ब्राह्मणरूपिणम् । कृतः क्षयो मया कोपान्मां परीङितुमागतः
जीवयामि ध्रुवं धर्मं युष्माकं च प्रसादतः । इत्येवमुक्त्वा सा वृन्दा चेत्युवाच व्पजेश्वर
तपः सत्यं यदि मम सत्यं च विष्णुपूजनम् । तेन पुण्येन सद्योऽत्र द्विजो भवतु विज्वरः
यदि मे च भवेत्सत्यं व्रतं सत्यं तपःशुचि । तेन पुण्येन सत्येन द्विजो भo
यदि नारायणः सत्यः सर्वात्मा नित्यविग्रहः । ज्ञानात्मकः शिवः सत्यो द्विजो भo
ब्रह्म सत्यं च ते देवाः प्रकृतिः परमा यदि । यज्ञः सत्यस्तपः सत्यं द्विजो भo
इत्येवमुक्त्वा सा वृन्दा धर्म क्रोडे चकार च । तं दृष्ट्वा च कलारूपं रुरोद कृपयासती
एतस्मिन्नन्तरे मूर्तिर्धर्मभार्या शुचाऽऽकुला । निपत्य विष्णुपादे य शिरसा चेत्युवाच सा
मूर्तिरुवाच हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु । तूर्णं जीवय कान्तं मे जगन्नाथ कृपामय
पतिहीना च या नारी पापिनी सा भवार्णवे । यथाऽऽस्यं चक्षुर्विरतं प्राणहीना यथा तनूः