तच्च ज्योतिःस्वरूपं च मण्डलाकारमेव च
आकाशमिव विस्तीर्णं सर्वव्यापकमव्ययम्
वदन्ति योगिनस्तत्र परं ब्रह्म सनातनम् 1.28.
निरीहं च निराकारं परमात्मानमीश्वरम्
परमानन्दरूपं च परमानन्दकारणम् तत्रैव लीना प्रकृतिः सर्वबीजस्वरूपिणी
यथाऽग्नौ दाहिका शक्तिः प्रभा सूर्य्ये यथा मुने
यथा शब्दश्च गगने यथा गन्धः क्षितौ सदा
सृष्ट्युन्मुखेन तद् ब्रह्म चांशेन पुरुषः स्मृतः
त्रिगुणा सा हि तत्रैव परा च्छायामयी स्मृता
यथा मृदा कुलालश्च घटं कर्तुं क्षमः सदा
स्वर्णेन कुण्डलं कर्त्तुं स्वर्णकारः क्षमो यथा
कुलालसृष्टा न च मृन्नित्या चैव सनातनी
नित्यं तत्परमं ब्रह्म नित्या च प्रकृतिः स्मृता 1.28.
मृदं स्वर्णं समाहर्तुं कुलालस्वर्णकारकौ
तस्मात्तत्प्रकृतेर्ब्रह्म परमेव च नारद
केचिद्वदन्ति तद्ब्रह्म स्वयं च प्रकृतिः पुमान्
तद्ब्रह्म परमं धाम सर्वकारणकारणम्
ब्रह्म चात्मा च सर्वेषां निर्लिप्तं साक्षिरूपि च
तद्ब्रह्मशक्तिः प्रकृतिः सर्वबीजस्वरूपिणी
तेजोरूपं च तद्ब्रह्म ध्यायन्ते योगिनः सदा
तत्तेजः कस्य नाश्चर्य्यं ध्यायन्ते पुरुषं विना
ध्यायन्ते वैष्णवास्तस्मात्तत्र रूपं मनोहरम्
तत्तेजोमण्डलाकारे सूर्य्यकोटिसमप्रभे 1.28.
लक्षकोट्या योजनानां चतुरस्रं मनोहरम्
सुदृश्यं वर्तुलाकारं यथा चन्द्रस्य मण्डलम्
ऊर्ध्वं च नित्यवैकुण्ठात्पञ्चाशत्कोटियोजनम्
कामधेनुभिराकीर्णं रासमण्डलमण्डितम्
शतशृङ्गं शातकुम्भैः सुदीप्तं श्रीमदीप्सितम् ।। । लक्षकोट्या परिमितैराश्रमैः सुमनोहरैः
शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम्
कौस्तुभेन्द्रेण मणिना राजितं परमोज्ज्वलम्