वृन्दोवाच धैर्य कुरु महाभाग श्रेष्ठो जातिषु ब्रह्मणः । ब्रह्मणानां तपो मूलं सत्यं वेदव्रतं धृतिः
परस्त्रीसहसंभोगः स्वभावश्चाप्यधर्मिणाम् । अधर्मेणैव हे विप्र दुष्टोऽभद्राणि पश्यति
ततः सपत्ने जयति समूलस्थो विनश्यति । पतिव्रतानां गमने बलात्कारेण निश्चितम्
मातृगामी भवेत्सद्यो ब्रह्महत्याशतं भवेत् । कुम्भीपाके पच्यते च यावच्चन्द्रदिवाकरौ
प्रदग्धस्तैलतप्तेषु न मृतः सूक्ष्मदेहतः । ताडितो यमदूतैश्च लोहदण़्डेन मूर्धनि
क्षणं सुखं चिरं दुःखं सर्वनाशस्य कारणम् । अगम्यागमनं दुःखं धर्मिष्ठो नैव वाञ्छति
क्षमस्वगच्छ भद्रं ते ब्राह्मण ज्ञानदुर्बल । यथा दीपशिखां दृष्ट्वा कीटः पतति निश्चितम्
मिष्टं दृष्ट्वा बडीशाग्रे लुब्धमीनो मृगो यथा । यथा विषाक्तं भक्ष्यं च भुङ्क्ते भोक्ता बुभुक्षितः
गृह्णाति दुष्टो दुष्टं च विषकुम्भं पयोमुखम् । तथा दृष्ट्वा परस्त्रीणां मुखपद्मं मनोहरम्
विनाशबीजं मोहेन भ्रान्तो भवति लम्पटः । मुखं च रुचिरं स्त्रीणां श्रोणियुग्मं मनोहरम्
कामाधारं नाशबीजमधर्मस्थलमेव च । भगं नरककुण्डं च लालामूत्रसमन्वितम्
दुर्गन्धियुक्तं पापं च यमदण्डस्य कारणम् । यथा लिङ्गं विशत्येव पापयोनौ च योषिताम्
तथा पुमान्विशत्येव रौरवे च युगे युगे । रहस्यं चाऽऽपदं दृष्ट्वा मां तवं धर्षितुमिच्छसि
अत्रैव सर्वदेवाश्च लोकपालाश्च ब्राह्मणा । जाज्वल्यमानो धर्मश्च साक्षी शास्ता च कर्मणाम्
यमश्च दण़्डकर्ता च स्थापितो हरिणा स्वयम् । स्वयं कुष्णश्च धर्मात्मा ज्ञानरुपो महेश्वरः
दुर्गा बुद्धिर्मनो ब्रह्म चेन्द्रियाणि सुरास्तथा । सर्वप्राणिषु तिष्ठन्ति साक्षिणाः कर्मणां द्विज
क्व गुप्तं क्व रहस्यं वा ब्रह्मण ज्ञानदुर्बल । क्षमस्व गच्छ भद्रं ते अवध्याश्च द्विजातयः
शक्ताऽहं भमसात्कर्तुं गच्छ वत्स यथासुखम् । तपस्यासु मम गतमष्टोत्तरशतं युगम्
नास्ति गोर्त्र मत्पितुश्च न माता न पिता मम । सर्वान्तरात्मा भगवान्कृष्णो रक्षति मां द्विज
कृष्णेन स्थापितो धर्मो मां च रक्षति नित्यशः । आदित्यश्च तथा चन्द्रः पवनश्च हुताशनः
ब्रह्मा शंभुर्भगवती दुर्गा रक्षति मां सदा । येन शुक्लीकृता हंसाः शुकाश्च हरिताः कृताः
मयूराश्चित्रिता येन स मे रक्षां करिष्यति । अनाथबालवृद्धानां रक्षकाः सर्वदेवताः
नारीबुद्व्या न मां धर्मस्त्यक्त्वा गच्छेद्धि सर्वदा । मां मातरं परित्यज्य गच्छ वत्स यथासुखम्
इत्येवमुक्त्वा देवी सा तस्थौ तत्र धरा यथा । आगच्छन्तं च संभोक्तुं मा यान्तं बोधनेन च
शशापेति च सा कोपाद्ब्रह्मपन्धो क्षयो भव । क्षयो भव दुराचार हे पापिष्ठ क्षयो भव
पुनः शप्तं स्वयं सूर्यो वारयामास यत्नतः । एतसिमन्नन्तरे तात तत्रव जगदीश्वराः
आजग्मुरतिसंत्रस्ता ब्रह्मविष्णुशिवादयः । धर्म दृष्ट्वा कलारूपं रुरुदुस्त्रिदशेश्वराः
कृत्वा क्रोडेऽतीव कृशं कुह्वा भीतं यथा विधुम् । निश्चेष्टं मलिनं दग्धं सतीकोपाग्निना व्रज
श्रीभवानुवाच क्षमस्व वृन्दे मद्भक्ते जन्ममृत्युजराहरे । धर्म जीवय मद्भक्तं रक्ष धर्म पतिव्रते
ब्रह्मोवाच ध्वान्तपूर्ण जगत्सर्दं विना धर्म बभूव ह । कम्पितौ चन्द्रसूर्यौ च शेषश्चापि वसुंधरा