तत्परश्च प्रियो नास्ति वृन्दे भगवातः शृणु । सर्वशक्तिस्वरूपा सा दुर्गा दुर्गतिनाशिनी
ब्रह्मस्वरूपा परमा मूलप्रकृतिरीश्वरी । नारायणी विष्णुमाया वैष्णवी सा सनातनी
यन्मायया जगद्भ्रान्तमनित्ये भ्रमते सदा । सा स्तौति भक्त्यायं देवं वृन्देऽयङ्गे.दिवानिशम्
स्तौति भक्त्या स्वशक्त्या च गजवक्त्रः षडाननः । ध्यायते यं गणेशश्च सर्वादौ यस्य पूजनम्
भगवान्सर्वदेवेशो ज्ञानिनां च गुरोर्गुरुः । सिद्वेन्द्रेषु च देवेन्द्रे योमीन्द्रे ज्ञानिनां गुरौ
न गणेशात्परो विद्वान्गणेशश्च सुराधिपः । सरस्वती च यं स्तोतुमशक्ता परमेश्वरी
दिवानिशं पादपद्मं भक्त्या पद्मा निषेवते । यत्कटाक्षाज्जगत्सर्व परिपूर्णतमं शिवम्
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् । वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु
पृथिवी सेवया यस्य सर्वाधारा वसंधरा । समृद्रा निश्चलाः शैला यस्य भीताश्च सुन्दरि
तीर्थसारा च सा गङ्गा पवित्रा मुक्तिदायिनी । जगतां पावनी देवी यस्य पादाब्जसेवया
पवित्रा तुलसी देवी स्मरणाद्यस्य सेवनात् । नवग्रहाश्च दिक्पाला भीता यस्य प्रतापतः
ब्रह्मण्डेषु च सर्वेषु ब्रह्मविष्णुशिवात्मकाः । अन्ये ये ये सुरेशाश्च शेषाद्या मुनयस्तथा
केचित्कलास्वरूपाश्चाप्यंशरूपाश्च केचन । केचित्कलांशाः कृष्णस्य केचिच्च परमात्मनः
पतिमिच्छसि कल्याणि प्रकृतेः परमीश्वरम् । गोलोके राधिका साध्यो नान्येषां च कदाचन
मां भजस्व महाभागे नृपाणामीश्वरं पतिम् । बलवन्तं च देवेभ्यो दैत्येभ्यश्च वरानने
सुखानि यानि कल्याणि त्रिषु लोकेषु सन्ति वै । भुङ्क्ष्व तान्येव सर्वाणि मत्प्रसादान्न संशयः
सप्तसागलपारे च काञ्चनी रुचिरा वरे । देवानां क्रीडनार्थाय विधात्रा निर्मिता पुरी
तत्रैव गच्छभद्रं ते रम रामे मया सह । महेन्द्रस्य प्रियवनं पुष्पोद्यानसमन्वितम्
गच्छ स्वर्णमयीं लङ्कां नानारत्नविभूषिताम् । तत्रैव गच्छ भद्रं ते रमo
विस्पन्दकं सुवसनं नन्दकं पुष्पभद्रकम् । तत्रैव गच्छ भद्रं ते रमo
सुमेरुगह्वरं वाऽपि क्षीरोर्द वा मनोहरम् । तत्रैव गच्छ भद्रं ते रमo
सत्यलोकं ब्रह्मलोकं रम्यं सद्म रहःस्थलम् । तत्रैव गच्छ भद्रं ते रमo
मलये निलयं रम्यं रत्नेन्द्रसारनिर्मितम् । सुगन्धियुक्तं सततं शुद्धं चन्दनवायुना
मालती यूथिका रम्या केतकी माधवी तथा । चारुचम्पकपुष्पाणां गन्धेन सुमनोहरम्
पिकानां भ्रमराणां च मधुरध्वनिसंयुतम् । तत्रैव गच्छ भद्रं ते रमo
इन्द्रस्य वरुणास्यैव वायोरपि यमस्य च । धनेश्वरस्य बह्रेश्च धर्मस्य शशिनस्तथा
सुरम्यं लोकमेतेषां मध्ये तेवि यथेच्छसि । तत्रैव गच्छ भद्रं ते रमo
रत्नद्वीपं मणिद्वीपं रम्यं चन्द्रसरोवरम् । तत्रैव गच्छ भद्रं ते रमo
इत्येवमुक्त्वा संभोक्तुं गच्छन्तं तं छलेन च । न वास्तवपरीक्षार्थं सतीत्वं बोधितुं व्रज
उवाच सा नृपसुता कोपवक्त्रास्यलोचना । हितं सत्यं योगयुक्तं धर्मार्थं च यशस्करम्