धर्म उवाच भवती कस्य कन्या वा किं ते नाम मनोहरे । किं करोषि रहस्येव तन्मे कथितुमर्हसि
कस्य हेतोस्तपस्या ते किं वा वाञ्छसि सुन्दरि । वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम्
वृन्दोवाच विप्र केदारकन्याऽहं वृन्दा वृन्दावने स्थिता । तपः करोमि रहसि चिन्तयामि हरिं पतिम्
यदि दातुं समर्थोऽसि देहि मे वाञ्छितं वरम् । असमर्थोऽसि चेद्गच्छ किं ते प्रश्नेन ब्राह्मण
धर्म उवाच निरीहमवितर्क्यं च परमात्मानमीश्वरम् । निर्गुणं च निराकारं भक्तानुग्रहविग्रहम्
का क्षमा तं पतिं कर्तुं विना लक्षमीं सरस्वतीम्
गोलोके द्विभुजस्यापि श्रीवंशीवदनस्य च । किशोरगोपवेषस्य परिपूर्णतमस्य च
तस्य भार्या स्वयं राधा महालक्ष्मीः परात्परा । ब्रह्मस्वरूपा परमा परमात्मानमीश्वरम्
भजते सततं शान्तं सुरम्यं श्यामसुन्दरम् । कोटिकन्दर्पसौन्दर्यनिन्दितं सुकलेवरम्
अमूल्यरत्नाभरणं सत्यं च नित्यविग्रहम् । पीताम्बरधरं रम्यं दातारं सर्वसंपदाम्
श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः । चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम्
यन्निमेषो भवेद्वृन्दे ब्रह्मणः पततेन च । पञ्चविंशत्सहस्रेणा युगेनेन्द्रस्य पातनम्
चतुर्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् । तावतीति निशा तस्य विधातुर्जगतामपि
एवं त्रिंशद्दिनैर्मासं द्विषट्के मासि वर्षकम् । एवं शतायुस्तस्यैव निबोध बोधतत्परम्
यावज्जीवनपर्यन्तं सेवन्ते सनकादयः । कल्पानां कोटिकोटिं च तन्न साध्याश्चयो विभुः
सहस्रवक्त्रः शेषश्च सेवते च जपन्सदा । दिवानिशं च यं भक्त्या कल्पकोटिशतं शतम्
तन्न साध्यो हितकरो दुराराध्यः परात्परः । ब्रह्मा ब्रह्मास्वरूपं तं भजेज्जन्मनि जन्मनि
वक्त्रैश्चतुर्भिः सततं स्तौति नित्यं सनातनम् । वेदेऽनिर्वचनीयश्च वेदानां जनको विधिः
विधाता फलदाता च दाता च सर्वसंपदाम् । तन्न साध्यो हि भगवान्कालकालान्तकः
संहारकर्ता जगतां कलया रुद्ररूपतः । स स्तौति पञ्चवक्त्रेण कोऽन्योऽन्यस्यापि का कथा
तत्परश्च प्रियो नास्ति वृन्दे भगवातः शृणु । सर्वशक्तिस्वरूपा सा दुर्गा दुर्गतिनाशिनी
ब्रह्मस्वरूपा परमा मूलप्रकृतिरीश्वरी । नारायणी विष्णुमाया वैष्णवी सा सनातनी
यन्मायया जगद्भ्रान्तमनित्ये भ्रमते सदा । सा स्तौति भक्त्यायं देवं वृन्देऽयङ्गे.दिवानिशम्
स्तौति भक्त्या स्वशक्त्या च गजवक्त्रः षडाननः । ध्यायते यं गणेशश्च सर्वादौ यस्य पूजनम्
भगवान्सर्वदेवेशो ज्ञानिनां च गुरोर्गुरुः । सिद्वेन्द्रेषु च देवेन्द्रे योमीन्द्रे ज्ञानिनां गुरौ
न गणेशात्परो विद्वान्गणेशश्च सुराधिपः । सरस्वती च यं स्तोतुमशक्ता परमेश्वरी
दिवानिशं पादपद्मं भक्त्या पद्मा निषेवते । यत्कटाक्षाज्जगत्सर्व परिपूर्णतमं शिवम्
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् । वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु
पृथिवी सेवया यस्य सर्वाधारा वसंधरा । समृद्रा निश्चलाः शैला यस्य भीताश्च सुन्दरि
तीर्थसारा च सा गङ्गा पवित्रा मुक्तिदायिनी । जगतां पावनी देवी यस्य पादाब्जसेवया