राजा संपूज्य तां भक्त्या तस्थौ पत्नींसर्प्य च । सा विज्ञाय प्रसूं तातं कृत्वा च विनयं सुदा
ययौ पुण्यवनं रम्यं तपसे यमृनान्तिकम् । तत्तपस्यावनं यस्मात्तस्माद्दृन्दावनं स्मृतम्
तपसा वरयामास मां वरं च वरं वरम् । ब्रह्मा ददौ वरं तस्यै पश्यात्कृष्णं लभेष्यसि
स चैकदा नदीतीने वसन्ते सस्मिता सती । शयाना पुष्पशय्यायां रत्नाभरणभूषिता
ब्रह्मा परीक्षितुं यातःसाध्वीं च सुमनोहराम् । ददर्श कन्या रहसि युवानं पुरुषं परम्
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् । सस्मीतं कामुकं रम्यं रमणीनां च वाञ्छितम्
यथा षोडशवर्षीयं कुमारं कनकप्रभम् । कोटिकन्दर्पलीलाभं वीताम्बरधरं वरम्
शरत्पार्वणाचन्द्रास्यं शरत्पद्मसुलोचनम् । दृष्ट्वा तं च समुत्थाय वासयामास संनिधौ
पूजां चकार भक्त्या च फलं मूलं ददौ मुदा। सुवा सितं जलं दत्त्वा प्रणनाम मुदाऽन्विता
पूजां गृहीत्वा मुदितः सादरं तामुवाच ह । विप्ररूपी च भगवान्प्रज्वलन्ब्रह्मातेजसा
धर्म उवाच भवती कस्य कन्या वा किं ते नाम मनोहरे । किं करोषि रहस्येव तन्मे कथितुमर्हसि
कस्य हेतोस्तपस्या ते किं वा वाञ्छसि सुन्दरि । वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम्
वृन्दोवाच विप्र केदारकन्याऽहं वृन्दा वृन्दावने स्थिता । तपः करोमि रहसि चिन्तयामि हरिं पतिम्
यदि दातुं समर्थोऽसि देहि मे वाञ्छितं वरम् । असमर्थोऽसि चेद्गच्छ किं ते प्रश्नेन ब्राह्मण
धर्म उवाच निरीहमवितर्क्यं च परमात्मानमीश्वरम् । निर्गुणं च निराकारं भक्तानुग्रहविग्रहम्
का क्षमा तं पतिं कर्तुं विना लक्षमीं सरस्वतीम्
गोलोके द्विभुजस्यापि श्रीवंशीवदनस्य च । किशोरगोपवेषस्य परिपूर्णतमस्य च
तस्य भार्या स्वयं राधा महालक्ष्मीः परात्परा । ब्रह्मस्वरूपा परमा परमात्मानमीश्वरम्
भजते सततं शान्तं सुरम्यं श्यामसुन्दरम् । कोटिकन्दर्पसौन्दर्यनिन्दितं सुकलेवरम्
अमूल्यरत्नाभरणं सत्यं च नित्यविग्रहम् । पीताम्बरधरं रम्यं दातारं सर्वसंपदाम्
श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः । चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम्
यन्निमेषो भवेद्वृन्दे ब्रह्मणः पततेन च । पञ्चविंशत्सहस्रेणा युगेनेन्द्रस्य पातनम्
चतुर्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् । तावतीति निशा तस्य विधातुर्जगतामपि
एवं त्रिंशद्दिनैर्मासं द्विषट्के मासि वर्षकम् । एवं शतायुस्तस्यैव निबोध बोधतत्परम्
यावज्जीवनपर्यन्तं सेवन्ते सनकादयः । कल्पानां कोटिकोटिं च तन्न साध्याश्चयो विभुः
सहस्रवक्त्रः शेषश्च सेवते च जपन्सदा । दिवानिशं च यं भक्त्या कल्पकोटिशतं शतम्
तन्न साध्यो हितकरो दुराराध्यः परात्परः । ब्रह्मा ब्रह्मास्वरूपं तं भजेज्जन्मनि जन्मनि
वक्त्रैश्चतुर्भिः सततं स्तौति नित्यं सनातनम् । वेदेऽनिर्वचनीयश्च वेदानां जनको विधिः
विधाता फलदाता च दाता च सर्वसंपदाम् । तन्न साध्यो हि भगवान्कालकालान्तकः
संहारकर्ता जगतां कलया रुद्ररूपतः । स स्तौति पञ्चवक्त्रेण कोऽन्योऽन्यस्यापि का कथा