श्रीकृष्ण उवाच पुरातु ब्रह्मणाः पुत्रो मनुः स्वांयभुवस्तथा । तस्य स्त्री शतरूपा च धन्या मान्या च योषिताम्
प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः । उत्तानपादपुत्रश्च ध्रुव एव महायशाः
तत्पुत्रो नन्दसावर्णिः केदारश्च तदात्मजः । सप्तद्वीपपतिः श्रीमान्केदारो वैष्णवः स्वयम्
तस्य रक्षानिमित्तेन सत्सभायां सुदर्शनम् । गवां लक्षं शुद्धं स्वर्णशृङ्गं च भूषितम्
वह्निशुद्धानि वस्त्राणि दत्तानि वरुणेन च । सुवर्णानां तथा लक्षं सर्वसस्यां वसुंधराम्
मणिरत्नं च मुक्ताश्च हीरकं परमं तथा । माणिक्यामश्वरत्नानां लक्षं लक्षं चहस्तिनाम्
रौप्यं प्रवालं मिष्टान्नं शतधान्याचलं वरम् । नित्यं नित्यं ब्राह्मणेम्यो ददौ च रत्नभूषणाम्
शतलक्षं ब्राह्मणानां भोजयामास नित्यशः । जलभोजनपात्राणि सुवर्णानां ददौ नृपः
सुवर्णानां यज्ञसूत्रमङ्गुलीयकमुत्तमम् । आसनं स्वर्णरत्नानां ब्राह्मणेभ्यो ददौ मुदा
ब्राह्मणानां च लक्षं च सूपकारं नृपस्य च । ब्राह्मणानां द्विलक्षं च परिवेषणकारकम्
घृतकुल्या मधुकुल्या दधिकुल्या मनोहराः । गुडकुल्या दुग्धकुल्या नित्यं प्रार्थनमीप्सितम्
प्रातरारभ्य संध्यान्तं विप्राणां भोजनं तथा । दुःशिनां भिक्षुकाणां च धनदानं यथोचितम्
फलमूलाशनो राजा वैष्णवश्च जितेन्द्रियः । सर्व मदर्पणं कृत्वाऽजपन्मां च दिवानिशम्
एकदा सूपकारश्च तमुवाच नृपेश्वरम् । विप्राणां भोजनायैव दशलक्षमुपस्थितम्
भुञ्जते ब्राह्मणाश्चाद्य रूक्षमन्नं वद प्रभो । कुर्वन्तु भक्षणं ते वै विप्राः सूपादिना नृप
चतुर्योजनपर्यन्तमधिकारो नृपस्य च । यो राजा तच्छतसुणः स एव मण्डलेश्वरः
तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्तितः । राजेन्द्राणां पञ्चलक्षं नित्यं केदारसंसदि
अमूल्यरत्नमाणिक्यं मुक्ताहीरं मणीश्वरम् । गजरत्नमश्वरत्नं केदाराय करं ददौ
कमलाकलया जाता यज्ञकुण्डसमुद्भवाः । वह्रिशुद्धांसुकाधाना रत्नभूषणभूषिता
कामुकी कामिनीश्रेष्ठा कन्या कमललोचना । कन्याऽस्मि ते महाराजेत्युवाच नृपतिं च सा
राजा संपूज्य तां भक्त्या तस्थौ पत्नींसर्प्य च । सा विज्ञाय प्रसूं तातं कृत्वा च विनयं सुदा
ययौ पुण्यवनं रम्यं तपसे यमृनान्तिकम् । तत्तपस्यावनं यस्मात्तस्माद्दृन्दावनं स्मृतम्
तपसा वरयामास मां वरं च वरं वरम् । ब्रह्मा ददौ वरं तस्यै पश्यात्कृष्णं लभेष्यसि
स चैकदा नदीतीने वसन्ते सस्मिता सती । शयाना पुष्पशय्यायां रत्नाभरणभूषिता
ब्रह्मा परीक्षितुं यातःसाध्वीं च सुमनोहराम् । ददर्श कन्या रहसि युवानं पुरुषं परम्
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् । सस्मीतं कामुकं रम्यं रमणीनां च वाञ्छितम्
यथा षोडशवर्षीयं कुमारं कनकप्रभम् । कोटिकन्दर्पलीलाभं वीताम्बरधरं वरम्
शरत्पार्वणाचन्द्रास्यं शरत्पद्मसुलोचनम् । दृष्ट्वा तं च समुत्थाय वासयामास संनिधौ
पूजां चकार भक्त्या च फलं मूलं ददौ मुदा। सुवा सितं जलं दत्त्वा प्रणनाम मुदाऽन्विता
पूजां गृहीत्वा मुदितः सादरं तामुवाच ह । विप्ररूपी च भगवान्प्रज्वलन्ब्रह्मातेजसा