अहं ब्रह्मा च विष्णुश्च शेषो धर्मो महान्विराट्
यद्विशेषणयुक्तं च दृश्यं प्रत्यक्षमेव च
वैकुण्ठे च पुरा पृष्टे धर्मेण ब्रह्मणा तदा 1.28.
सारभूतं च तत्त्वानामज्ञानान्धकलोचनम्
परमात्मस्वरूपं च परं ब्रह्म सनातनम्
प्राणाः पञ्च स्वयं विष्णुर्मनो ब्रह्मा प्रजापतिः
आत्माधीना वयं सर्वे स्थिते तस्मिन्वयं स्थिताः
जीवस्तत्प्रतिबिम्बं च सर्वभोगी हि कर्मणाम्
बिम्बं घटेषु भग्नेषु प्रलीनं चन्द्रसूर्य्ययोः
एकमेव परं ब्रह्म शेषे वत्स भवक्षये
तच्च ज्योतिःस्वरूपं च मण्डलाकारमेव च
आकाशमिव विस्तीर्णं सर्वव्यापकमव्ययम्
वदन्ति योगिनस्तत्र परं ब्रह्म सनातनम् 1.28.
निरीहं च निराकारं परमात्मानमीश्वरम्
परमानन्दरूपं च परमानन्दकारणम् तत्रैव लीना प्रकृतिः सर्वबीजस्वरूपिणी
यथाऽग्नौ दाहिका शक्तिः प्रभा सूर्य्ये यथा मुने
यथा शब्दश्च गगने यथा गन्धः क्षितौ सदा
सृष्ट्युन्मुखेन तद् ब्रह्म चांशेन पुरुषः स्मृतः
त्रिगुणा सा हि तत्रैव परा च्छायामयी स्मृता
यथा मृदा कुलालश्च घटं कर्तुं क्षमः सदा
स्वर्णेन कुण्डलं कर्त्तुं स्वर्णकारः क्षमो यथा
कुलालसृष्टा न च मृन्नित्या चैव सनातनी
नित्यं तत्परमं ब्रह्म नित्या च प्रकृतिः स्मृता 1.28.
मृदं स्वर्णं समाहर्तुं कुलालस्वर्णकारकौ
तस्मात्तत्प्रकृतेर्ब्रह्म परमेव च नारद
केचिद्वदन्ति तद्ब्रह्म स्वयं च प्रकृतिः पुमान्
तद्ब्रह्म परमं धाम सर्वकारणकारणम्
ब्रह्म चात्मा च सर्वेषां निर्लिप्तं साक्षिरूपि च
तद्ब्रह्मशक्तिः प्रकृतिः सर्वबीजस्वरूपिणी
तेजोरूपं च तद्ब्रह्म ध्यायन्ते योगिनः सदा