मृत्युलोके च मन्नामस्मृतिमात्रं न विद्यतेः । पश्चाद्भवेत्स गोयोनौ जन्मैकं ज्ञानदुर्बलः
ततश्चागस्ततो मेषो महिषः स्प्तचन्मसु । महाचक्री च कुटिलो धर्महीनस्तु मानवः
जन्मैकं तैलकारश्च कुम्भकालस्तथैव च । मिथ्याकलङ्कवक्ता च देवब्राह्मण निन्दकः
स भवेत्स्वर्णकारश्च रजकः सप्तजन्मसु । ब्राह्मणक्षत्रविट्शूद्राः कुत्सिताः शौचवर्जिताः
जन्म तेषां मलेच्छयोनौ वर्षाणामयुतं तथा । अतीव कामिनीलुब्धः कामुकः स्त्रीरतः सदा
यक्ष्मग्रस्तो भवेत्सद्यः परत्रापि नपुंसकः । कामतो योषितां श्रोणीस्तनास्ये यश्च पश्यति
स भवेद्दृष्टिहीनश्च परत्रापि नपुंसकः । विप्रोऽभिचारकर्ता च हिंसको ज्ञानदुर्बलः
यात्येवमन्धतामिस्रं वर्षाणामयुतं तथा । तदा भवति दैवज्ञोऽप्यग्रदानी च दुर्मतिः
ततः शूद्रो भवेद्विप्रो भोगेन कर्मणस्तथा । शास्त्रज्ञाता च दैवज्ञो मिथ्या वदति लोभतः
स भवेच्च ध्रुवं ज्येष्ठी वानरः सप्तजन्मसु । अनेकजन्मतपसा भारते ब्राह्मणो भवेत्
सुबुद्धिरतिधर्मिष्ठो धर्महीनश्च पातकी । स्वधर्मनिरतो विप्रः परमाच्च हुताशनात्
पवित्रश्चातितेजस्वी तस्मद्भीताः सुराः सदा । नदीषु च यथा गङ्गा तीर्थेषु पुष्करं यथा
पुरीषु च यथा काशी यथा ज्ञानिषु शंकरः । शास्त्रेषु च यथा वेदा यथाऽश्वत्थश्च पादपे
मम पूजा तपस्यासु व्रतेष्वनशनं यथा । तथा जातिषु सर्वासु ब्राह्मणाः श्रेष्ठ एव च
विप्रणदेषु तीर्थानि पुण्यानि च व्रतानि च । विप्रपादरजः शुद्धं पापव्याधिविमर्दनम्
शुभाशीर्वचनं तेषां सर्वकल्याणकारणम् । एतत्ते कथितं तात विपाकः कर्मणामहो
यथाश्रुतं यथाज्ञातं तदशेषं निणामय। शुत्वा धर्मविपाकं च वाचकाय सुवर्णकम्
दद्यात्तस्मै च रौप्यं च वस्त्रं ताम्बूलमेव च । सुवर्णशतकं दद्यात्सद्यो देही च गोकुलम्
अथ षडशीतितमोऽध्यायः नन्द उवाच केदारकन्याप्रस्तावात्कथितं कर्मकीर्तनम् । कृत्यास्त्रीणां प्रसङ्गेन तद्व्यासेन वद प्रभो
केदारकन्या सा का वा को वा केदारभूपतिः । कस्य वंशेचतज्जन्म तन्मे व्याख्यातुमर्हसि
श्रीकृष्ण उवाच पुरातु ब्रह्मणाः पुत्रो मनुः स्वांयभुवस्तथा । तस्य स्त्री शतरूपा च धन्या मान्या च योषिताम्
प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः । उत्तानपादपुत्रश्च ध्रुव एव महायशाः
तत्पुत्रो नन्दसावर्णिः केदारश्च तदात्मजः । सप्तद्वीपपतिः श्रीमान्केदारो वैष्णवः स्वयम्
तस्य रक्षानिमित्तेन सत्सभायां सुदर्शनम् । गवां लक्षं शुद्धं स्वर्णशृङ्गं च भूषितम्
वह्निशुद्धानि वस्त्राणि दत्तानि वरुणेन च । सुवर्णानां तथा लक्षं सर्वसस्यां वसुंधराम्
मणिरत्नं च मुक्ताश्च हीरकं परमं तथा । माणिक्यामश्वरत्नानां लक्षं लक्षं चहस्तिनाम्
रौप्यं प्रवालं मिष्टान्नं शतधान्याचलं वरम् । नित्यं नित्यं ब्राह्मणेम्यो ददौ च रत्नभूषणाम्
शतलक्षं ब्राह्मणानां भोजयामास नित्यशः । जलभोजनपात्राणि सुवर्णानां ददौ नृपः
सुवर्णानां यज्ञसूत्रमङ्गुलीयकमुत्तमम् । आसनं स्वर्णरत्नानां ब्राह्मणेभ्यो ददौ मुदा
ब्राह्मणानां च लक्षं च सूपकारं नृपस्य च । ब्राह्मणानां द्विलक्षं च परिवेषणकारकम्