नित्यं सुरार्चनं कृत्वा दाम्भिको ज्ञानदुर्बलः । गुरुं च नार्चयेद्भक्त्या तस्मै नान्नं ददाति यः
स भवेद्देलो दुःखी देवशापेन पातकी । नित्यं सुरार्चनं कृत्वा दाम्भिको ज्ञानदुर्बलः
पूचाफलं न लभते देवद्रोही स दारुपाः । दीपनिर्वाणकर्ता च खद्योल सप्तचन्मसु
अतीव मत्स्यलब्धश्चाप्यनैवेद्यं च खादति । स भवेन्मत्स्यरङ्गश्च मार्जरिः सप्तजन्मसु
गोणीहर्ता कपोतश्च मालाहर्ता विहंगमः । चटको धान्यचोरश्च मांसचोरश्च कुंजरः
कविः प्रहर्ता विदुषां माण्ड्रकः सप्तजन्मसु । असत्कविर्ग्रामविप्रो नकुलः सप्तजन्मसु
कुष्ठी भवेच्च जन्मैकं कृकलासस्त्रिजन्मसु । जन्मैकं वरलश्चैव ततो वृक्षपिपीलिका
ततः शूद्रश्च वैश्यश्च क्षत्रियो ब्राह्मणस्तथा । कन्याविक्रयकारी च चतुर्वर्णो हि मानवः
सद्यः प्रयाति तामिस्रं यावच्चन्द्रदिवाकरौ । ततौ भवति व्याधश्च मांसविक्रयकारकः
ततो व्याधि(धो)र्भवेत्पश्चाद्यो यथा पूर्वचन्मनि । मन्नामविक्रयी विप्रोन हि मुक्तो
मृत्युलोके च मन्नामस्मृतिमात्रं न विद्यतेः । पश्चाद्भवेत्स गोयोनौ जन्मैकं ज्ञानदुर्बलः
ततश्चागस्ततो मेषो महिषः स्प्तचन्मसु । महाचक्री च कुटिलो धर्महीनस्तु मानवः
जन्मैकं तैलकारश्च कुम्भकालस्तथैव च । मिथ्याकलङ्कवक्ता च देवब्राह्मण निन्दकः
स भवेत्स्वर्णकारश्च रजकः सप्तजन्मसु । ब्राह्मणक्षत्रविट्शूद्राः कुत्सिताः शौचवर्जिताः
जन्म तेषां मलेच्छयोनौ वर्षाणामयुतं तथा । अतीव कामिनीलुब्धः कामुकः स्त्रीरतः सदा
यक्ष्मग्रस्तो भवेत्सद्यः परत्रापि नपुंसकः । कामतो योषितां श्रोणीस्तनास्ये यश्च पश्यति
स भवेद्दृष्टिहीनश्च परत्रापि नपुंसकः । विप्रोऽभिचारकर्ता च हिंसको ज्ञानदुर्बलः
यात्येवमन्धतामिस्रं वर्षाणामयुतं तथा । तदा भवति दैवज्ञोऽप्यग्रदानी च दुर्मतिः
ततः शूद्रो भवेद्विप्रो भोगेन कर्मणस्तथा । शास्त्रज्ञाता च दैवज्ञो मिथ्या वदति लोभतः
स भवेच्च ध्रुवं ज्येष्ठी वानरः सप्तजन्मसु । अनेकजन्मतपसा भारते ब्राह्मणो भवेत्
सुबुद्धिरतिधर्मिष्ठो धर्महीनश्च पातकी । स्वधर्मनिरतो विप्रः परमाच्च हुताशनात्
पवित्रश्चातितेजस्वी तस्मद्भीताः सुराः सदा । नदीषु च यथा गङ्गा तीर्थेषु पुष्करं यथा
पुरीषु च यथा काशी यथा ज्ञानिषु शंकरः । शास्त्रेषु च यथा वेदा यथाऽश्वत्थश्च पादपे
मम पूजा तपस्यासु व्रतेष्वनशनं यथा । तथा जातिषु सर्वासु ब्राह्मणाः श्रेष्ठ एव च
विप्रणदेषु तीर्थानि पुण्यानि च व्रतानि च । विप्रपादरजः शुद्धं पापव्याधिविमर्दनम्
शुभाशीर्वचनं तेषां सर्वकल्याणकारणम् । एतत्ते कथितं तात विपाकः कर्मणामहो
यथाश्रुतं यथाज्ञातं तदशेषं निणामय। शुत्वा धर्मविपाकं च वाचकाय सुवर्णकम्
दद्यात्तस्मै च रौप्यं च वस्त्रं ताम्बूलमेव च । सुवर्णशतकं दद्यात्सद्यो देही च गोकुलम्
अथ षडशीतितमोऽध्यायः नन्द उवाच केदारकन्याप्रस्तावात्कथितं कर्मकीर्तनम् । कृत्यास्त्रीणां प्रसङ्गेन तद्व्यासेन वद प्रभो
केदारकन्या सा का वा को वा केदारभूपतिः । कस्य वंशेचतज्जन्म तन्मे व्याख्यातुमर्हसि