अयुते च तदीशश्च लक्षे च पृथिवीश्वरः । पूजने चातिभक्त्या चाप्यतिरिस्तं फलं लभेत्
तीर्थस्नानेन दानेन विप्राणां भोजनेन च । नारायणार्चया चैव विप्रजातिश्च कर्मणा
अतिरिक्तेन तपसा पण्डितो ब्राह्मणो भवेत् । पण्डितो ब्राह्मणश्चैव वैष्णवश्च जितेन्द्रियः
अनेकजन्मपुण्येन जायते भारते भुवि । तस्याङ्ध्रिस्पर्शनेनैव सद्यः पूता वसुंधरा
तीर्थाः कुर्वन्ति तीर्थानि जीवनमुक्ताश्च वैष्णवाः । स्वपुंसां च सहस्रं च पुनन्तीति श्रुतौ श्रुतम्
पापेन वैद्यजन्मैव दुश्चिकित्सोऽपि ब्राह्मणः । दुश्चिकित्सस्तथा वैद्यो व्यालग्राही त्रिजन्मसु
अतिक्रूरो दुराचारो द्वेष्टा च सुरविप्रयोः । स भवेत्कुटिलव्यालो वर्षाणां च महस्रकम्
पुंश्चलीलम्पटानां च दूती या कामिनी व्रज । कालमूत्रे वर्षशतं स्थित्वा च गोधिका भवेत्
जन्मैकं गोधिका भूत्वा हरिणश्च त्रिजन्मसु । जन्मैकं महिषचैव जन्मैकं भल्लुको भवेत्
जन्मैकं गण्डकश्चैव सृगालश्च त्रिजन्मसु । परकीयतडागं च लुप्त्वा सस्यं ददाति च
स भवेन्नक्रजातिश्च कच्छपश्च त्रिजन्मसु । वृथा मांसं च यो भुङ्क्ते मत्स्यलुब्धश्च ब्राह्मणः
भुङ्क्ते मांसमदत्तं च स मीनश्च मृगो भवेत् । वर्षाणां च सहस्रं च तात भुक्त्वा च किल्बिषम्
कर्मभोगाच्छुचिर्भूत्वा स पुनर्ब्राह्मणो भवेत् । एकादशीविहीनश्च ब्राह्मणः पतितोभवेत्
भक्ष्यस्य द्विगुणं दत्त्वा तेन पापेन मुच्यते । मम जन्मदिने चैव यो भुङ्क्ते मानवोऽधमः
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः । भुक्त्वा च नरकं सर्वं पश्चाच्चण्डालतां व्रजेत्
एवं च शिवरातौ च श्रीरामनवमीदिने । उपवासासमर्थश्च हविष्यान्नं समाचरेत्
ततोऽशक्तो दुर्बलश्च भोजयेद्ब्राह्मणानपि । कृत्वा महोत्सवं पुण्यं मदीयं पातकाच्छुचिः
तस्माद्यत्नेन कर्तव्यं नामसंकीर्तनं मम । गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः
श्वापदः शतजन्मानि कुह्वां च निशि भोजनात् । अदीक्षितो द्विजश्चैव शङ्खश्चिल्लः
अनुद्वाही द्विजश्चैव राजहंसो भवद्ध्रुवम् । चित्रवस्त्रापहारी च मयूरश्च त्रिजन्मसु
तेजःपत्रापहारी च भवेत्कारण्डवश्चिरम् । सुराणां प्रतिमाचोरोऽप्यन्धश्च सप्तचन्मसु
दरिद्रो व्याधियुक्तश्च बधिरश्चापि कुब्जकः । स्त्रीतैलमधुमांसानि रवौ वा पञ्चपर्वसु
सेवते यो महामूढो वज्रदंष्ट्रं व्रजेद्ध्रुवम् । पातकी दुःखितस्तत्र वर्षाणां च सहस्रकम्
ततो भवति म्लेच्छश्च चाण्डालः सप्तजन्मसु । व्यावियुक्तस्ततः शूद्रो ब्राह्मणश्च ततः शुचिः
तस्माद्यत्नान्न भोक्तव्यं भारते धर्मभीरुणा । ब्राह्मणं च सुरं दृष्ट्वा न नमेद्यो नराधमः
यावज्जीवनपर्यन्तमशुचिर्यवनो भवेत् । अभ्युत्थानं न कुरुते दृष्ट्वा चाऽऽगतब्राह्मणम्
स भवेद्ब्रह्मघाती च सप्तजन्मसु निश्चितम् । शिवद्वेषी कुक्कुटश्च देवलः सप्तजन्ममु
पितृदेवान्चनं हन्ति वेदोक्तं ज्ञानदुर्बलः । स याति नरमं पापी वर्षाणां च सहस्रकम्
ततश्च रौरवं भुक्त्वा तीर्थकाकस्त्रिचन्मसु । त्रिजन्मसु शृगालश्च तीर्थे भुङ्क्ते शवं व्रज
त्रिजन्मसु भवेत्सोऽपि तीर्थेषु शवरक्षकः । शवानां करमादत्ते कर्मणा कृतपातकी