यः शूद्रो ब्राह्मणीगामी कुम्भीपाके व्रजेद्ध्रुवम् । वर्षाणां च त्रिलक्षं च पच्यते तत्र पीडितः
दिवानिशं प्रदग्धश्च तप्ततैले च दारुणे । ततौ भवेद्योनिकीटः पुंश्चलीनां च पातकी
षष्टिवर्षसहस्राणि चाऽऽहारं तस्य तन्मलम् । ततो भवति चाण्डालो जन्मलक्षं क्रमेण च
ततः शूद्रो गलत्कुष्ठी जन्मैकं च ततः शुचिः । सोऽपि विप्रो व्याधिशेषस्तीर्थपर्यटनाच्छुचिः
असच्छूद्रश्च भवति सोऽस्थानेऽसूरपूजिते । दत्तवा देवाय नैवेद्यमपवित्रं च मानवः
सकेशं पार्थिवं लिङ्गं संपूज्य यवनो भवेत् । दुर्बलेन भवेदन्धः कुत्सितेन च कुत्सतिः
अङ्गहीनो दरिद्रश्च व्याधियुक्तश्च मानवः । अश्रद्धया च निर्माणे निर्माणसदृशं फलम्
मृद्भस्मगोशकृत्विण्डैस्तथा वालुकयाऽपि वा । कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुषं दिवि
ततो भवति विप्रश्च महाब्रज्ञश्च भूमिमान् । राजा भवेद्भारते च लिङ्गानां शतपूजनात्
सहस्रपूजनात्सोऽपि लभते निश्चितं फलम् । स्थित्वा च सुचिरं स्वर्गे राजेन्द्रो भारते भवेत्
अयुते च तदीशश्च लक्षे च पृथिवीश्वरः । पूजने चातिभक्त्या चाप्यतिरिस्तं फलं लभेत्
तीर्थस्नानेन दानेन विप्राणां भोजनेन च । नारायणार्चया चैव विप्रजातिश्च कर्मणा
अतिरिक्तेन तपसा पण्डितो ब्राह्मणो भवेत् । पण्डितो ब्राह्मणश्चैव वैष्णवश्च जितेन्द्रियः
अनेकजन्मपुण्येन जायते भारते भुवि । तस्याङ्ध्रिस्पर्शनेनैव सद्यः पूता वसुंधरा
तीर्थाः कुर्वन्ति तीर्थानि जीवनमुक्ताश्च वैष्णवाः । स्वपुंसां च सहस्रं च पुनन्तीति श्रुतौ श्रुतम्
पापेन वैद्यजन्मैव दुश्चिकित्सोऽपि ब्राह्मणः । दुश्चिकित्सस्तथा वैद्यो व्यालग्राही त्रिजन्मसु
अतिक्रूरो दुराचारो द्वेष्टा च सुरविप्रयोः । स भवेत्कुटिलव्यालो वर्षाणां च महस्रकम्
पुंश्चलीलम्पटानां च दूती या कामिनी व्रज । कालमूत्रे वर्षशतं स्थित्वा च गोधिका भवेत्
जन्मैकं गोधिका भूत्वा हरिणश्च त्रिजन्मसु । जन्मैकं महिषचैव जन्मैकं भल्लुको भवेत्
जन्मैकं गण्डकश्चैव सृगालश्च त्रिजन्मसु । परकीयतडागं च लुप्त्वा सस्यं ददाति च
स भवेन्नक्रजातिश्च कच्छपश्च त्रिजन्मसु । वृथा मांसं च यो भुङ्क्ते मत्स्यलुब्धश्च ब्राह्मणः
भुङ्क्ते मांसमदत्तं च स मीनश्च मृगो भवेत् । वर्षाणां च सहस्रं च तात भुक्त्वा च किल्बिषम्
कर्मभोगाच्छुचिर्भूत्वा स पुनर्ब्राह्मणो भवेत् । एकादशीविहीनश्च ब्राह्मणः पतितोभवेत्
भक्ष्यस्य द्विगुणं दत्त्वा तेन पापेन मुच्यते । मम जन्मदिने चैव यो भुङ्क्ते मानवोऽधमः
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः । भुक्त्वा च नरकं सर्वं पश्चाच्चण्डालतां व्रजेत्
एवं च शिवरातौ च श्रीरामनवमीदिने । उपवासासमर्थश्च हविष्यान्नं समाचरेत्
ततोऽशक्तो दुर्बलश्च भोजयेद्ब्राह्मणानपि । कृत्वा महोत्सवं पुण्यं मदीयं पातकाच्छुचिः
तस्माद्यत्नेन कर्तव्यं नामसंकीर्तनं मम । गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः
श्वापदः शतजन्मानि कुह्वां च निशि भोजनात् । अदीक्षितो द्विजश्चैव शङ्खश्चिल्लः
अनुद्वाही द्विजश्चैव राजहंसो भवद्ध्रुवम् । चित्रवस्त्रापहारी च मयूरश्च त्रिजन्मसु