स्थित्वा वर्ष भवेद्धस्ती तत्पश्चाद्वृषलो भवेत् । अयज्ञे छागहन्ता च च्छागचोरप्रतिग्रही
पूयकुण्डे वर्षशतं स्थितवा चाण्डालतां व्रजेत् । छागश्च वर्षपर्यन्तं तदा भवति मानवः
शत्रुशस्त्रेणा च्छिन्नश्च तदा मुक्तो भवेद्द्विजः । दत्तापहारी वाग्दानं कृत्वाऽपहरते पुनः
स भवेन्मलेच्छयोनौ च भुक्त्वा च नरकं व्रजेत् । एकाकी मिष्टमश्नाति कालमूत्रं व्रजेद्ध्रुवम्
तत्र वर्षशतं स्थित्वा प्रेदो वर्षसहस्रकम् । तदा भवति जन्मैकं मक्षिका च पिपीलिका
जन्मैकं भ्रमरश्चैव जन्मैकं मधुमक्षिका । जन्मैकं वरलश्चैव जन्मैकं दंश एव च
जन्मैकं मशकश्चैव जन्मैकं पूतिकं स्मृतम् । जन्मैकं तल्पकीटश्च तदा शूद्रो भवेद्ध्रुवम्
असद्बुद्धिर्व्याधियुक्तस्तदा मुक्तो भवेद्द्विजः । तैलचोरस्तैलकारो मूर्धिन कीटस्त्रिजन्मकम्
तदा भवेत्स्वर्णकारो जन्मैकं दुष्टमानसः । विश्वैकनिपिकर्ता च भक्ष्मदादुर्धनं हरेत्
तमःकुण्डे वर्षशतं स्थित्वा स्वर्णवणिग्भवेत् । जन्मैकं च दराचारो जन्मैकं करणो भवेत्
कायस्थेनोदरस्थेन मातुर्मासं न खादितम् । तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम्
स्वर्णकारः स्वर्णवणिक् कायस्थश्च व्रजेश्वर । नरेषु मध्ये ते धूर्ताः कृपाहीना महीतले
हृदयं क्षुरधाराभं तेषां नास्ति च सादरम् । शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ
सुबुद्धिः शिवयुक्तश्च शास्त्रज्ञो धर्ममानसः । न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे
सीमापहारी दुष्टश्च भूमिचोरश्च हिंसकः । भूमिदानापहारी च कालसूत्रं व्रजेद्ध्रुवम्
षष्टिवर्षसहस्रामि क्षटत्विवासार्दितः स्थितः ततोऽपितानि नामानि विष्ठायां जायते कृमिः
ततो भवेदसच्छूद्रो जन्मैकं च ततः शुचिः । तस्माज्ज्ञानैः सावधानं भवेत्प्राज्ञश्च यत्नतः
रक्तवस्त्रापहारी च जन्मैकं रक्तकीट कः । ततः शूद्रश्च जन्मैकं ततो विप्रो भवेच्छुचि
त्रिसंध्यहीनो विब्रश्च प्रातःशायी च यो नरः । संध्याशायी दिवाशायी यज्ञसूत्रापहारकः
अशुद्धः संध्याकारी च वेदवेदाङ्गनिन्दकः । तद्विरुद्धः स्वर्गमार्गस्त्रिजन्मपतितो द्विजः
यः शूद्रो ब्राह्मणीगामी कुम्भीपाके व्रजेद्ध्रुवम् । वर्षाणां च त्रिलक्षं च पच्यते तत्र पीडितः
दिवानिशं प्रदग्धश्च तप्ततैले च दारुणे । ततौ भवेद्योनिकीटः पुंश्चलीनां च पातकी
षष्टिवर्षसहस्राणि चाऽऽहारं तस्य तन्मलम् । ततो भवति चाण्डालो जन्मलक्षं क्रमेण च
ततः शूद्रो गलत्कुष्ठी जन्मैकं च ततः शुचिः । सोऽपि विप्रो व्याधिशेषस्तीर्थपर्यटनाच्छुचिः
असच्छूद्रश्च भवति सोऽस्थानेऽसूरपूजिते । दत्तवा देवाय नैवेद्यमपवित्रं च मानवः
सकेशं पार्थिवं लिङ्गं संपूज्य यवनो भवेत् । दुर्बलेन भवेदन्धः कुत्सितेन च कुत्सतिः
अङ्गहीनो दरिद्रश्च व्याधियुक्तश्च मानवः । अश्रद्धया च निर्माणे निर्माणसदृशं फलम्
मृद्भस्मगोशकृत्विण्डैस्तथा वालुकयाऽपि वा । कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुषं दिवि
ततो भवति विप्रश्च महाब्रज्ञश्च भूमिमान् । राजा भवेद्भारते च लिङ्गानां शतपूजनात्
सहस्रपूजनात्सोऽपि लभते निश्चितं फलम् । स्थित्वा च सुचिरं स्वर्गे राजेन्द्रो भारते भवेत्