मन्दाग्निज्वरसंयुक्तः पञ्चाशद्वर्षकं तथा । सुवर्णानां शतपलं दत्तवा शुद्धो भवेद्ध्रुवम्
चतुर्वर्णो वस्त्रहारी गव्यहारी च मानवः । रौप्यमुक्तापहारी च शूद्रद्रव्यापहारकः
वर्षाणां च सहस्रं च बकजातिर्भवेद्ध्रुवम् । मुत्रकुण्डं च वै भुक्त्वा वर्षाणां शतकं तथा
ततो भवेच्छूद्रजातिर्वर्षाणां शतकं व्रज । कुष्ठव्याधिसमायुक्तो गलितश्चैव पातकी
ततो भवेद्ब्राह्मणश्च कुष्ठावशेषसंयुतः । स्वर्णषट्पलदानेन व्याधितो मुच्यते शुचिः
शाकापहारकश्चैव फलापहारकस्तथा । यक्षः पृथिव्यां संभूतो लीलाद्रव्यापहारकः
वर्षाणां शतकं चैव चाषपक्षी भवेद्ध्रुवम् । ततो भवेत्कृष्णवर्णः शूद्रश्च भारते भुवि
ततो भवेद्ब्राह्मणश्चाप्यधिकाङ्गोऽपि जन्मनि । पुनर्जन्मद्विजो भूत्वा सुच्यते विप्रभोजनात्
पक्वद्रव्यापहारी च पशुयोनिर्भवेद्रध्रुवम् । यस्याण्डकोशो गन्धाक्तः कस्तूरी यस्य नाम च
सप्तजन्ममृगो भूत्वा ततो भवति गन्धकः । जन्मैकं च ततः शूद्रो गलत्कुष्ठी च जन्मनि
ततो रोगावशेषेण संयुतो ब्रह्मणः कृशः । स्वर्णषट्पलदानेन मुच्यते नात्र संशयः
धान्यापहारी दुःखी च कृपणः सप्तजन्मसु । विष्ठाकुण्डं वर्षशतं संप्राप्य मुच्यते भिया
स्वर्णापहारी कुष्ठी च मानव पतितो भवेत् । स्वर्णदानप्रतिग्राही विट्कुण्डं च प्रयाति य
ततो वर्षशतं भुक्त्वा पुरीषं च दिवानिशम् । ततो व्याघो भवेच्छूद्रो रक्तदोषेण संयुतः
तज्जन्मपातकं भुक्त्वा ब्राह्मणश्च पुनर्भवेत् । व्याधिरोषावयुक्तश्च मुच्यते स्वर्णदानतः
अगम्यानां च गामी च पूर्वोक्तं रौरवं व्रजेत् । कुम्भीपाकं महाघोरं वर्षाणां चाप्यसंख्यकम्
ततो भवेत्पुंश्चलीनां योनीनां च कृमिस्तथा । वर्षाणां च सहस्रं च विट्कृमिर्वर्षलक्षकम्
पशुयोनिर्भवेत्तस्मात्तस्माच्च क्षुद्रजन्तवः । ततो भवेन्म्लेच्छजातिस्ततः शूद्राधमस्तदा
ततो भवति विप्रश्च व्याधियुक्तो नपुंसकः । पुनश्च ब्राह्मणो भूत्वा तीर्थपर्यटनेन च
क्रमेण शुद्धो भवति वंशहीनश्च पातकात् । भोजयित्वा विप्रलक्षं पुत्रं च लभते शुचिः
मानवः क्रोधयुक्तश्च गर्दभः सप्तजन्मसु । मानवः कलहाविष्टः सप्तजन्मसु वायसः
शालग्रामप्रतिग्राही कालसूत्रं व्रजेद्ध्रुवम् । वर्षाणां शतकं चैव शञ्जरीटो भवेत्ततः
लोहचोरश्च निर्वंशो मषीचोरश्च कोकिलः । शुकोऽप्यञ्जनचोरश्च मिष्टचोरः कृमिर्भवेत्
विप्रद्वेषी गुरुद्वेषी शिरसां च कृमिर्भवेत् । पुंश्चलीं कामिनीं तात भुक्त्वा च रौरवं व्रजेत् ।। ११९ ततो वृथा कृमिश्चैव वर्षाणां शतकं तथा । ततोऽपि विधवा चैव वन्ध्या च सप्तजन्मसु
अस्पृश्या जातिहीना च च्चिन्ननासा भवेत्क्रमात् । रक्तद्रव्यापहारी च रक्तदोषान्वितो भवेत्
आचारहीनो यवनः खञ्जो भवति हिंसकः । अदीक्षितो वङ्खरश्च दुष्टदर्शो च काणकः
अहंकारी कर्णहीनो बधिरो वेदनिन्दकः । वाक्यहर्ता च मूकश्च हिंसकः केशहीनकः
मिथ्यावादी श्मश्रुहीनो दुर्वाक्यो दन्तहीनकः । चिह्वाहीनः सत्यहारी दुष्टोऽप्यङ्गुलिहीनकः
ग्रन्थापहारी मूर्खश्च व्याधियुक्तो भवेद्ध्रुवम् । अश्वग्राही च तच्चौरो लालामूत्रं व्रजेदिति
वर्षाणां च शतं स्छित्वा घोटकश्च भवेद्ध्रुवम् । गजचोरो गचग्राही विट्कुण्डे च सहस्रकम्