ततः स्वकुलजातोऽपि निर्व्याधिर्ब्राह्मणःशुचिः । ब्राह्मणः क्षत्रियघ्नश्च क्षत्रियो वा विना रणात्
तप्तशूलं च प्राप्नोति वर्षाणां च सहस्रकम् । क्वथितं तप्तलोहेन चाऽऽर्तनादं करोति च
ततो भवेन्मत्तगजो वर्षाणां शतकं तथा । ततो रक्तविकारी च शूद्रो वर्षशतं तथा
गजदानेन मुक्तश्च व्याधितश्च ततो द्विजः । वैश्यघ्नश्चापि वैश्यश्च शूद्रघ्नो वैश्य एव च
वैश्यघ्नश्चापि शूद्रश्च समं पापं लभेद्ध्रुवम् । कृमिकुण्डं च प्राप्नोति वर्षाणां शतकं तथा
कृमिभिर्भक्षितो दुःशी किरातश्च भवेत्ततः । वर्षाणां शतकं चैव कृमिव्याधिसमन्वितः
ततो मन्दाग्नियुक्तश्च ब्राह्मणो दैन्यवान्व्रज । पञ्चाशद्वर्षपर्यन्तं दुर्बलश्च कृशोदरः
मुक्तिर्भवति युक्तेन तीर्थेचाश्वप्रदानतः । शूद्रघ्नो ब्रह्मणश्चैव कामतोऽकामतोऽपि वा
सावित्री लक्षयाप्येन तदर्धेन शुचिर्भवेत् । चतुर्वर्णः कुक्कुरघ्नो ह्यभिशप्तश्च शंभुना
वर्षाणां शतकं चैव प्राप्नोति रौरवं नरः । ततो भवेत्कुक्कुलश्च वर्षाणामपि षोडश
ततः शुद्धो भवेद्विप्रो भक्षितः कुक्कुरेणै च । गङ्गास्नानेन दानेन स्वर्णस्यापि भवेच्छुचिः
मार्जारघ्नश्चतुर्वर्णो गङ्गास्नानाद्भवेच्छुचिः । विप्राय लवणं दत्त्वा षट्पलं च प्रमुच्यते
हत्वा सर्पांश्चतुर्वर्णो मम पादेन चिह्नितान् । ब्रह्महत्याचतुर्थं च पातकं च लभेद्ध्रुवम्
असिपत्रं च नरकं वर्षांणां शतकं तथा । प्राप्नोति यातनायुक्तो विच्छिन्नस्तीक्ष्णधारया
ततो भवति सर्पश्च डुण्डुभो वर्षपञ्चकम् । नरेण ताडितो दुःखी मृत्योर्भवति पीडितः
ततो भवेन्नरः पापी ज्वरयुक्तो हि दुर्बलः । वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा
अश्वघ्नश्च गजघ्नश्च चतुर्वर्णश्च पातकी । वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा
ततो भवति हस्ती च घोटको वा व्रजेश्वर । यावद्विंशतिवर्षाणि ततः शूद्रो भवेद्ध्रुवम्
अहंकृती व्याधियुक्तो रौप्यदानेन मुच्यते । ब्राह्मणानां च शतकं भोजयित्वा शुचिर्भवेत्
क्षुद्रजन्तुवधेनैव क्षुद्रजन्तुर्भवेन्नरः । वर्षाणां शतकं चैव क्षुद्रव्याधिं तरेत्ततः
कृपा कार्या सता शश्वतहिंस्रेषु च जन्तुषु । हिंसायां न हि दोषश्च हिंस्राणां च व्रजेश्वर
अश्वत्थघ्नश्चतुवंर्णो ब्रह्महत्याचतुर्थकम् । पापं च लभते तात चासिपत्रं व्रजेद्ध्रुवम्
स तीक्ष्णेनापि शस्त्रेण विच्छिन्नश्च दिवानिशम् । वर्षाणां शतकं चैव भुङ्क्ते परमयातनाम्
ततो भवति वृक्षश्च शालमलिरह्वर्षलक्षकम् । ततो भवति शूद्रश्च च्छिन्नाङ्गो व्याधिसंयुतः
यावज्जीवनपर्यन्तं ततो विप्रो भवेद्ध्रुवम् । व्रणव्याधिसमायुक्तो मुच्यते स्वर्णदानतः
मिथ्यासाक्ष्यप्रदाता च कृतघ्नोऽतिकृतघ्नकः । विश्वासघाती मित्रघ्नो विप्राणां धनहारकः
शूद्रश्राद्धान्नभोजी च शूद्राणां शवदाहकः । शूद्राणां सूपकारश्च वृषवाहकपातकी
धावको देवलश्चापि चैतेऽतिपापिनस्तथा । कुम्भीपाकं प्रयान्तयेव वर्षाणां च सहस्रकम्
तत्रैव तप्ततैलेन संतप्तश्च दिवानिशम् । णक्षितो व्यथितश्चैव सर्वाकारेण जन्तुना
गृध्रः कोटिसमस्राणि शतजन्मानि शूकरः । श्वापदः शतजन्मानि शूद्रो रोगी भवेत्ततः