प्रायश्चित्तं जन्म कर्म व्याधिरेव प संशयः । गोघ्नो भवति गौश्चापि यावद्वर्ष च निश्चितम्
चतुर्गुणं च तेषां च ब्रह्मघ्नो विट्कृमिर्भवेत् । ततो भवति म्लेच्छश्च तावद्वर्षचतुर्गुणम्
ततश्चान्धो भवेद्विप्रः पूर्वेषां च चतुर्गुणम् । ब्रह्मणानां चतुर्लक्षं भोजयित्वा शुचिर्भवेत्
चक्षुष्मांश्च यशस्वी च भवेत्सोऽप्यतिपातकात् । स्त्रीघ्नचतुर्णां वर्णानां वेदे सोऽप्यतिपातकी
कालसूत्रं च प्राप्नोति स्त्रीलोमसमवर्षकम् । भक्षितः कृमिणा तत्र निराहारो व्यथायुतः
ततो भवति लोके च तावद्वर्ष च पातकी । ततः पापी भवेत्सोऽपि यक्ष्मग्रस्तश्च कर्मणा
वर्षाणां शतकं चैव विप्रलक्षं च भोजयेत् । ततः शुद्धो ब्राह्मणश्च विद्वांस्तपसि संयतः
किंचिद्भुङक्ते पापशेषं स्वर्णदानाच्छुचिर्भवेत् । गर्भघ्नश्च महापापी संप्राप्नोति शुनीमुखम्
वर्षाणां सतकं चैव घोटकश्च भवेद्ध्रुवम् । वर्षाणां शतकं चैव सूक्ष्मशस्त्रेण पीडीतः
ततः पापी भवेद्वैश्यो द्रव्ययुक्तो हि कमंणा । पञ्चाशद्वर्षपर्यन्तं स्वर्णदानाद्भवेच्छुचिः
ततः स्वकुलजातोऽपि निर्व्याधिर्ब्राह्मणःशुचिः । ब्राह्मणः क्षत्रियघ्नश्च क्षत्रियो वा विना रणात्
तप्तशूलं च प्राप्नोति वर्षाणां च सहस्रकम् । क्वथितं तप्तलोहेन चाऽऽर्तनादं करोति च
ततो भवेन्मत्तगजो वर्षाणां शतकं तथा । ततो रक्तविकारी च शूद्रो वर्षशतं तथा
गजदानेन मुक्तश्च व्याधितश्च ततो द्विजः । वैश्यघ्नश्चापि वैश्यश्च शूद्रघ्नो वैश्य एव च
वैश्यघ्नश्चापि शूद्रश्च समं पापं लभेद्ध्रुवम् । कृमिकुण्डं च प्राप्नोति वर्षाणां शतकं तथा
कृमिभिर्भक्षितो दुःशी किरातश्च भवेत्ततः । वर्षाणां शतकं चैव कृमिव्याधिसमन्वितः
ततो मन्दाग्नियुक्तश्च ब्राह्मणो दैन्यवान्व्रज । पञ्चाशद्वर्षपर्यन्तं दुर्बलश्च कृशोदरः
मुक्तिर्भवति युक्तेन तीर्थेचाश्वप्रदानतः । शूद्रघ्नो ब्रह्मणश्चैव कामतोऽकामतोऽपि वा
सावित्री लक्षयाप्येन तदर्धेन शुचिर्भवेत् । चतुर्वर्णः कुक्कुरघ्नो ह्यभिशप्तश्च शंभुना
वर्षाणां शतकं चैव प्राप्नोति रौरवं नरः । ततो भवेत्कुक्कुलश्च वर्षाणामपि षोडश
ततः शुद्धो भवेद्विप्रो भक्षितः कुक्कुरेणै च । गङ्गास्नानेन दानेन स्वर्णस्यापि भवेच्छुचिः
मार्जारघ्नश्चतुर्वर्णो गङ्गास्नानाद्भवेच्छुचिः । विप्राय लवणं दत्त्वा षट्पलं च प्रमुच्यते
हत्वा सर्पांश्चतुर्वर्णो मम पादेन चिह्नितान् । ब्रह्महत्याचतुर्थं च पातकं च लभेद्ध्रुवम्
असिपत्रं च नरकं वर्षांणां शतकं तथा । प्राप्नोति यातनायुक्तो विच्छिन्नस्तीक्ष्णधारया
ततो भवति सर्पश्च डुण्डुभो वर्षपञ्चकम् । नरेण ताडितो दुःखी मृत्योर्भवति पीडितः
ततो भवेन्नरः पापी ज्वरयुक्तो हि दुर्बलः । वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा
अश्वघ्नश्च गजघ्नश्च चतुर्वर्णश्च पातकी । वर्षाणां पञ्चकेनैव मृतो भवति कर्मणा
ततो भवति हस्ती च घोटको वा व्रजेश्वर । यावद्विंशतिवर्षाणि ततः शूद्रो भवेद्ध्रुवम्
अहंकृती व्याधियुक्तो रौप्यदानेन मुच्यते । ब्राह्मणानां च शतकं भोजयित्वा शुचिर्भवेत्
क्षुद्रजन्तुवधेनैव क्षुद्रजन्तुर्भवेन्नरः । वर्षाणां शतकं चैव क्षुद्रव्याधिं तरेत्ततः