ब्रह्माणानां व२ष्णवानामभक्ष्यं मत्स्यमेव च । इतरेषामभक्ष्यं च पञ्चपर्वसु निश्चितम्
पितृदेवावशेषे च भक्ष्यं मांसं न दूथितम् । पञ्चपर्वसु त्याज्यं च सर्वेषां मनुरब्रवीत्
असंस्कृतं च लवणं तैलं चाभक्ष्यमेव च । भक्ष्यं पवित्रं सर्वेषां व्यञ्जनं वह्निसंस्कृतम्
एकहस्ते घृतं तोयमभक्ष्यं सर्वमंमतम् । आविलं कृमियुक्तं च परिशुद्धं च निर्मलम्
अभक्ष्यं ब्रह्माणानां च वैष्णवानां विशेषतः । अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम्
पिपीलिकामिश्रितं च मधु गव्यं गुडं तथा । यत्किंचिद्वस्तु वा तात न भक्ष्यं च श्रुतौ श्रुतम्
पक्षिभक्ष्यं कीटभक्ष्यं शृद्धं पक्वफलं तथा । काकभक्ष्यमभक्ष्यं च सर्वेषां द्रव्यमेव च
घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् । अभक्ष्यं ब्राह्मणानां च शूद्रभक्ष्यं च पीठकम्
सर्वेषामशुचीनां च जलमन्नं परित्यजेत् । आशौचान्तात्परदिने शुद्धमेव न संशयः
विपाकं कर्मणामेव दुष्करं श्रुतिसंमतम् । भक्ष्याभक्ष्यं च कथितं यथाज्ञानं व्रचेश्वर
क्रमाच्चतुर्षु वेदेषु चौक्तं मतचतुष्टयम् । सर्वेषां सारभूतं च कथयामि पितः शृणु
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
तीर्थानां च सुराणां च सहायेन नृणामपि । किंचिद्भवति साहाय्यं कायव्यूहेन सर्वतः
प्रायश्चितानि चीर्णानि निश्चितममत्पराङमुखम् । न निष्पुनन्ति हे तात सुराकुम्भमिवाऽऽपगाः
प्रायश्चित्तेन पुण्येन न हि शुध्यन्ति मानवा । सर्वारम्भेण वैश्येन्द्र दानेन योगतोऽपि वा
शुभाशुभं च यत्कर्म विना भोगान्न च क्षयः । भोगेन शुद्धिमाप्नोति ततो मुक्तिर्भवेन्नृणाम्
न नष्टं दुष्कृतं कर्म सुकृतेन च कर्मणा । न नष्टं सुकृतं कर्म कृतेन दुष्कृतेन च
यज्ञेन तपसा वाऽपि व्रतेनानशनेन च । तीर्थस्नानेन दानेन जपेन नियमेन च
भुवः प्रदक्षिणेनैव पुराणश्रवणेन च । उपदेणेन पुण्येन पूजया गुरुदेवयोः
स्वधर्माचरणेनैवातिथीनां पूजनेन च । ब्रह्मणां पूजनेनैव भोजनेन विशेषतः
यद्धत्तमपि विप्राय तत्प्राप्तं पूर्णरूपतः । बीजरूपं च तद्दानं क्षेत्ररूपं च ब्रह्मणः ४५ एकेन कर्मणा तात स्वर्गं प्राप्नोति मानवः । कर्मणा न हि मोक्षं च तदेव मम सेवया
स्वर्गं च सुकृतेनैव नरकं दुष्कृतेन च । व्याधिर्जन्म च योनौ च कुत्सिते च ततः शुचिः
गोघ्नो यो ब्राह्मणानां च कामतश्चोपपातकी । दन्दशूकत्वमाप्नोति गोलोमसमवर्षकम्
सर्पेण भक्षितस्तेन च्वालया गरलस्य च । तृषितो व्यथितश्चैव निराहारः कृशोदरः
ततः कुण्डात्समुत्थाय गौर्भवेल्लोमवर्षकम् । ततः कुष्ठी च चाण्डालो वर्षलक्षंततो नरः
तदा भवेद्ब्राह्मणश्च कुष्ठयुक्तो हि कर्मणा । भोजयित्वा विप्रलक्षं निर्व्याधिश्च भवेच्छुचिः
अकामतस्तदर्धं च क्षत्रियस्यापि कामतः । अकामतस्तदर्धं च तदर्धं च विशस्तथा
तदर्ध शूद्रगोघ्नश्च भुङ्क्ते पापं न संशयः । प्रायश्चित्तेन शुद्धश्च भुङ्क्ते शेषं च कर्मणः
अनुकल्पे चतुर्थं च पापं भुङ्क्ते न संशयः । चतुर्गुणं च गोघ्नानां ब्राह्मणानां च पातकम्
भुङ्क्ते पापं च ब्रह्मन्नो ब्राह्मणाश्चेतरोऽपि वा । क्रमेणानेन बोध्यं च कामतोऽकामतोऽपि वा