एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा
चतुर्दश्यां माषभक्ष्यं महापापकरं परम्
गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिनेषु च
प्रशस्तं सार्षपं तैलं पक्वतैलं च नारद
रवौ श्राद्धे व्रताहे च दुष्टं स्त्रीतिलतैलकम्
निषिद्धं शयनं चैव कूर्ममांसं च मन्त्रितम्
रात्रौ च दधि भक्ष्यं च शयनं सन्ध्ययोर्दिने 1.27.
उदक्यवीरयोरन्नं पुंश्चल्यन्नमभक्षकम्
अभक्ष्यान्नं च विप्रर्षे यदन्नं वृषलीपतेः
अग्रदानिद्विजान्नं च चिकित्साकारकस्य च
मूले मृगे भाद्रपदे मांसं गोमांसतुल्यकम्
कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत्पितॄन्
यत्कर्त्तव्यमकर्त्तव्यं यद्भोज्यं यदभोज्यकम्
नारद उवाच भवान्ब्रह्मस्वरूपं च वद ब्रह्मनिरूपणम्
प्रभो किं ब्रह्म साकारं किं निराकारमीश्वर
किं वा दृश्यमदृश्यं वा लिप्तं देहिषु किं न वा
ब्रह्मातिरिक्ता प्रकृतिः किं वा ब्रह्मस्वरूपिणी
प्राधान्यं तस्य सृष्टौ च द्वयोर्मध्ये वरं परम्
नारदस्य वचः श्रुत्वा पञ्चवक्त्रः प्रहस्य च
महादेव उवाच सुदुर्लभं च वेदेषु पुराणेषु च नारद
अहं ब्रह्मा च विष्णुश्च शेषो धर्मो महान्विराट्
यद्विशेषणयुक्तं च दृश्यं प्रत्यक्षमेव च
वैकुण्ठे च पुरा पृष्टे धर्मेण ब्रह्मणा तदा 1.28.
सारभूतं च तत्त्वानामज्ञानान्धकलोचनम्
परमात्मस्वरूपं च परं ब्रह्म सनातनम्
प्राणाः पञ्च स्वयं विष्णुर्मनो ब्रह्मा प्रजापतिः
आत्माधीना वयं सर्वे स्थिते तस्मिन्वयं स्थिताः
जीवस्तत्प्रतिबिम्बं च सर्वभोगी हि कर्मणाम्
बिम्बं घटेषु भग्नेषु प्रलीनं चन्द्रसूर्य्ययोः
एकमेव परं ब्रह्म शेषे वत्स भवक्षये