चराचरांश्च विश्वेषु देवान्ब्रह्मपुरोगमान्
परिपूर्णतमं स्वीड्यं वन्दे चानन्दपूर्वकम् वन्दे चानन्दपूर्वं तं परमात्मानमीश्वरम्
यं च स्तोतुमशक्ताश्च ब्रह्मविष्णुशिवादयः
वेदाश्च विदुषां श्रेष्ठाः स्तोतुं शक्ताश्च न क्षमाः
इत्येवमुक्त्वा सा दुर्गा रत्नसिंहासने वरे
इति दुर्गाकृतं स्तोत्रं कृष्णस्य परमात्मनः
दुर्गा तस्य गृहं त्यक्त्वा नैव याति कदाचन
सौतिरुवाच शुद्धस्फटिकसंकाशा देवी चैका मनोहरा
शुक्लवस्त्रपरीधाना सर्वालङ्कारभूषिता
सा तुष्टाव पुरः स्थित्वा परं ब्रह्म सनातनम्
सावित्र्युवाच परात्परतरं श्यामं निर्विकारं निरञ्जनम्
इत्युक्त्वा सस्मिता देवी रत्नसिंहासने वरे
आविर्बभूव तत्पश्चात्कृष्णस्य परमात्मनः
मनो मथ्नाति सर्वेषां पञ्चबाणेन कामिनाम्
तस्य पुंसो वामपार्श्वात्कामस्य कामिनी वरा
रतिर्बभूव सर्वेषां तां दृष्ट्वा सस्मितां सतीम्
हरिं स्तुत्वा तया सार्द्धं स उवास हरेः पुरः 1.4.
मारणं स्तम्भनं चैव जृम्भणं शोषणं तथा
बाणांश्चिक्षेप सर्वांश्च कामो बाणपरीक्षया
रतिं दृष्ट्वा ब्रह्मणश्च रेतः पातो वभूव ह
वस्त्रं दग्ध्वा समुत्तस्थौ ज्वलदग्निः सुरेश्वरः
कृष्णस्तद्वर्द्धनं दृष्ट्वा ससर्जापः स्वलीलया
विश्वौघं प्लावयामास मुखबिंदुजलं द्विज
ततःप्रभृति तेनाग्निस्तोयान्निर्वाणतां व्रजेत्
उत्तस्थौ तज्जलादेकः पुमान्स वरुणः स्मृतः
आविर्बभूव कन्यैका तद्वह्नेर्वामपार्श्वतः
जलेशस्य वामपार्श्वात्कन्या चैका बभूव सा 1.4.
बभूव पवनः श्रीमान्विभोर्निश्वासवायुतः
तस्य वायोर्वामपार्श्वात्कन्या चैका बभूव ह
कृष्णस्य कामबाणेन रेतःपातो बभूव ह