आवृतं मङ्गलघटैः फलपल्लवसंयुतैः । दधिलाजैश्च पर्णैश्च स्निग्धदूर्वाङ्कुरैः फलैः
श्रीरामकदलीस्तम्भैरसंख्यैश्च मनोहरैः । पट्टसूत्रनिबद्धैश्च स्निग्धैश्चन्दनपल्लवैः
चन्दनासक्तमाल्यैश्च भूषणैश्च विभूषितम् । अमूल्यरत्नरचितं शतशृङ्गमनोहरम्
कोटियोजनमूर्ध्वं च दैर्ध्यं शतगुणोत्तरम् । शैलप्रस्थपरिमितं पञ्चाशत्कोटियोजनम्
अतीव कमनीयं य वेदानिर्वचनीयकम् । प्राकारमिव तस्यापि गोललोकस्य मनोहरम्
परितो वेष्टितं रम्यं हीरहारसमन्वितम् । तत्र वृन्दावनं रम्यं युक्तं चन्दनपादपैः
कल्पवृक्षैश्च नम्यैश्च मन्दारैः कामधेनुभिः । शोभितं शोभनाढ्यैश्च पुष्पोद्यानैर्मनोहरैः
क्रीडासरोवरै रम्यैः सुरम्यै रतिमन्दिरैः । अतीव रम्यं रहसि रासयोग्यस्थलान्वितम्
रक्षितं रक्षकै रम्यैरसंख्यैर्गोपिकागणैः । परितो वर्तुलाकारं त्रिलक्षयोजनं वनम्
षट्पदध्वनिसंयुक्तं पुंस्कोकिलरुतान्वितम् । तत्राक्षयो वटो रम्यो रहस्ये बहृविस्तृतः
सहस्रयोजनोर्ध्वश्च परितश्च चतुर्गुणः । गोपीनां कल्पवृक्षश्च सर्ववाञ्छाफलप्रदः
क्रीडान्वितैरावृतश्च राधादासीत्रिलक्षकैः । विरजातीरनिराणां वायुना शीतलेन च
पुष्पान्वितेन मन्देन पवित्रश्च सुगन्धिना । दासीगणैरसंख्यैश्च वृन्दावनविनोदिनी
तत्र क्रीडति राधा सा मम प्राणाधिदेवता । सेयं श्रीदामशापेन वृषभानसुताऽधुना
ब्रह्मादिदेवैः सिद्धेन्द्रैर्मुनीन्द्रैः पूजिता व्रज । सिद्धैर्गुणैर्बलैर्बुद्ध्या ज्ञानयोगैश्च विद्यया
तात सर्वप्रकारेण वन्द्या सत्सदृशी प्रिया । इत्येवं कथितं नन्द ब्रह्माण्डानां च वर्णनम्
अथ पञ्चाशीतितमोऽध्यायः नन्द उवाच वर्णानां च चतुर्णां च भक्ष्याभक्ष्यं च सांप्रतम् । विपाकं कर्मणां चैव सर्वेषां प्राणिनामपि
कथयस्व महाभाग कारणानां च कारणम् । त्वत्तोऽन्यं कं च पृच्छामि नितान्तं सन्तमीश्वरम्
श्रीभगवानुवाच भक्ष्याभक्ष्यं चतुर्णां च वर्णानां च यथोचितम् । वेदोक्तं श्रूयता तात सावधानं निशामय
अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च । भृष्टादिकं पधु गुडं नालिकेरोदकं तथा
फलं मूलं च यत्किंचिदभक्षयं मनुरब्रवीत् । दग्धान्नं तप्तसौवीरमभक्ष्यं व्रह्मनिर्मितम्
नालिकेरोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यं च ताम्रपात्रस्थं सर्वं मद्यं घृतं विना
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् । दुग्धं सलवणं चैव सद्यो गोमांसभक्षणम्
अभक्ष्यं मधुमिक्षं च घृतं तैलं गुडं तथा । आर्द्रकं गुडसंयुक्तमभक्ष्यं श्रुतिसंमतम्
पीतशेषजलं चैव माघे च मूलकं तथा । जपादिकं च शयने सदा प्राज्ञः परित्यजेत्
द्विर्भोजनं च दिवसे संध्ययोह्भोजनं तथा । भक्ष्यं च रात्रिशेषे च ध्रुवं प्राज्ञः परित्यजेत्
पानीयं पायसं चूर्णं घुतं लवणमेव च । स्वस्तिकं गुडकं चैव क्षीरं तक्रं तथा मधु
हस्ताद्धस्तगृहीतं च सद्यो गोमांसमेव च । कर्पूरं रौप्यपात्रस्थमभक्ष्यं श्रुतिसंमतम्
परिवेषणकारी चेद्भोक्तारं स्पृशते यदि । मभक्ष्यं च तदन्नं च सर्वेषामेव संमतम्
नकुलानां गण्डकानां महिषाणां च पक्षिणाम् । सर्पाणां सूकराणां च गर्दभानां विशेषतः