नवग्रहाष्टौ वसवो देवाः कोटित्रयं तथा । ब्राह्मणाक्षत्रविट्शूद्रा यक्षगन्धर्वकिन्नराः
भूतादयो राङसाश्चाप्येवं सर्वं चराचरम् । विश्वे विश्वे विनिर्माणाः स्वर्गाः सप्त क्रमेण च
सप्तसागरसंयुक्ता सप्तद्वीपा वसुंधरा । काञ्चनीभूमिसंयुक्ता तमोयुक्तं स्थलं तथा
पातालाश्च तथा सप्त ब्रह्माण्डमेभिरेव च । विश्वे विश्वे चन्द्रसूयो पुण्यक्षेत्रं च भारतम्
तीर्थान्येतानि सर्वत्र गङ्गादीति व्रजेश्वर । यावन्ति लोमकूपानि महाविष्णोः क्रमेण च
विश्वान्येव ही तावन्ति ह्यमंख्यातानि च ध्रुवम् । विश्वेषासूर्ध्वाभामे च वैकुण्ठश्च निराश्रयः
मदिच्छया विनिर्माणा वेदाः कथितुमक्षमाः । कुयोगिनाम दृष्टश्चामभक्तानां विनिश्चितम्
तस्मादुपरि गोलोकः पञ्चाशत्कोटियोजनः । वायुना धार्यमाणश्च विचित्रः परमाश्रमः
अतीव रम्यनिर्माणो नित्यरूपो मदिच्छया । शतश्रृङ्गेण शैलेन पुण्यवृन्दावनेन च
सुरासमण्डलेनापि नद्या विरजया युतः । कोटियोजनविस्तीर्णा प्रस्थेन विरजा व्रज
दैर्ध्यं तस्याः शतगुणं परितः परमा शुभा । अमूल्यरत्ननिकरैर्हीरमाणिक्ययोस्तथा
मणीनां कौस्तुभादीनामसंख्यानां मनोहरा । अमूल्यरत्ननिर्माणं तत्रावि प्रतिमन्दिरम्
मनोहरं च प्राकारमदृष्टं विश्वकर्मणा । गोपीभिर्गोपनिकरैर्वैष्टितं कामधेनुभिः
कल्पवृक्षैः पारिजातैरसंख्यैश्च सरोवरैः । पुष्पोद्यानैःकोटिभिश्च संवृतं रासमण्डलम्
वेष्टितं वेष्टितैर्गोपैर्मन्दिरैः शतकोटिभिः । रत्नप्रदीपयुक्तैश्च पुष्पतल्पसमन्वितैः
सुगन्धिचन्दनामोदैः कस्तूरीकुङ्कुमान्वितैः । क्रीडोपयुक्तैर्भोगेश्च ताम्बूलैर्वासितैर्जलैः
धूपैः सुरभिरम्यैश्च माल्यैश्च रत्नदर्पणैः । रक्षकै रक्षितं शश्वद्राधादासीत्रिकोटिभिः
अमूल्यरत्नाभरणैर्वह्निशुद्धांशुकैरपि । लक्षणत्तगजेन्द्राणां वेष्टितं च बलैः क्रमात्
नवयौवनसंपन्नै रूपैर्निरुपमैरपि । रम्यं च वर्तुलाकारं चन्द्रबिम्बं यथा व्रज
अमूल्यरत्नरचितं दशयोजनविस्तृतम् । कस्तूरीकुङ्कुमै रभ्यैः सुगन्धिचन्दनार्चितम्
आवृतं मङ्गलघटैः फलपल्लवसंयुतैः । दधिलाजैश्च पर्णैश्च स्निग्धदूर्वाङ्कुरैः फलैः
श्रीरामकदलीस्तम्भैरसंख्यैश्च मनोहरैः । पट्टसूत्रनिबद्धैश्च स्निग्धैश्चन्दनपल्लवैः
चन्दनासक्तमाल्यैश्च भूषणैश्च विभूषितम् । अमूल्यरत्नरचितं शतशृङ्गमनोहरम्
कोटियोजनमूर्ध्वं च दैर्ध्यं शतगुणोत्तरम् । शैलप्रस्थपरिमितं पञ्चाशत्कोटियोजनम्
अतीव कमनीयं य वेदानिर्वचनीयकम् । प्राकारमिव तस्यापि गोललोकस्य मनोहरम्
परितो वेष्टितं रम्यं हीरहारसमन्वितम् । तत्र वृन्दावनं रम्यं युक्तं चन्दनपादपैः
कल्पवृक्षैश्च नम्यैश्च मन्दारैः कामधेनुभिः । शोभितं शोभनाढ्यैश्च पुष्पोद्यानैर्मनोहरैः
क्रीडासरोवरै रम्यैः सुरम्यै रतिमन्दिरैः । अतीव रम्यं रहसि रासयोग्यस्थलान्वितम्
रक्षितं रक्षकै रम्यैरसंख्यैर्गोपिकागणैः । परितो वर्तुलाकारं त्रिलक्षयोजनं वनम्
षट्पदध्वनिसंयुक्तं पुंस्कोकिलरुतान्वितम् । तत्राक्षयो वटो रम्यो रहस्ये बहृविस्तृतः