सर्वाधारस्वरूपा सा कलया सा वसुंधरा । कलया तुलसी गङ्गा कलया सर्वयोषितः
सृष्टिं करोमि च यया तात शक्त्या पुनः पुनः । दृष्ट्वा तां रासमध्यस्थां मम क्रीडा
बभूव सुचिरं तात यावद्वै ब्रह्मणः शतम् । अत्यद्भुतं कौतुकं च महाश्रृङ्गारमीप्सितम्
तयोर्द्वयोर्धर्मराशिः सुस्राव रासमण़्डले । तस्मान्मनोहरं जज्ञे नामनाकारसरोवरम्
पपात धर्मधाराऽधो वेगेन विश्वगोलके । बभूव जलबूर्णं च ब्रह्माण्डानां च गोलकम्
जलपूर्ण पुरा सर्व शृष्टिशून्यं व्रजेश्वर । श्रुङ्गारान्ते च तस्यां च वीर्याधानं मया कृतम्
दधार गर्भ सा राधा यावद्वै ब्रह्मणाः शतम् । सुस्राव सा तदन्ते च डिम्भं च परमाद्भुतम्
चुकोप देवी तं दृष्ट्वा रुरोद विषसाद सा । पादेन प्रेरयामास तमधो विश्वगोलके
स पपात जले तात सर्वाधारो महान्विराट् । दृष्ट्वाऽपत्यं जलस्थं च मया शप्ता च सा पुरा
अनपत्या च सा राथा मच्छापेन पुरा विभो । तेन प्रसूताः क्रमतो दुर्गा लक्ष्मीः सरस्वती
चतस्रः परिबूर्णास्ताः प्रसूताश्च सुनिश्चितम् । देव्योऽन्याश्चापि कामिन्यस्ताः प्रसूता व्रजेश्वर
कलया प्रभवो यासां कलांशांशेन वा व्रज । जज्ञे महान्विराड्येन डिम्भेन कलयाऽऽश्रयः
अमृताङ्गुष्ठपीयूषं मया दत्तं पपौ च सः । जले स्थावररूपश्च शेते च निजकर्मणः
उपधानं जलं तल्पं तस्य योगबलेन च । तस्य लोम्नां च कूपानि जलपूर्णानि संततम्
प्रत्येकं क्रमतस्तेषु शेते क्षुद्रविराट् पुनः । सहस्रपत्रं कमलं जज्ञे क्षुद्रस्य नाभितः
तत्र जज्ञे वरो ब्रह्मा तेनायं कमलोद्भवः । तत्राऽऽविर्भूय स विधिश्चिन्ताग्रस्तो बभूव सः
कस्माद्देहःक्वा माता मे पिता वा क्व च बान्धवः । दिव्यं त्रिलक्षवर्षञ्च बभ्राम कमलान्तरे
ततो दिव्यं पञ्चलक्षं सस्मार तपसा च माम् । तदा मया दत्तमन्त्रं जजाप कमलान्तरे
दिव्यवर्षसप्तलक्षं नियतं संयतः शुचिः । तदा मत्तो वरं लब्ध्वा स्रष्टा सृष्टिं चकार सः
मायया प्रति ब्रह्माण्डे ब्रह्मविष्णुशिवात्मकाः । दिक्पाला द्वादशादित्या रुद्राश्चैकादशापि च
नवग्रहाष्टौ वसवो देवाः कोटित्रयं तथा । ब्राह्मणाक्षत्रविट्शूद्रा यक्षगन्धर्वकिन्नराः
भूतादयो राङसाश्चाप्येवं सर्वं चराचरम् । विश्वे विश्वे विनिर्माणाः स्वर्गाः सप्त क्रमेण च
सप्तसागरसंयुक्ता सप्तद्वीपा वसुंधरा । काञ्चनीभूमिसंयुक्ता तमोयुक्तं स्थलं तथा
पातालाश्च तथा सप्त ब्रह्माण्डमेभिरेव च । विश्वे विश्वे चन्द्रसूयो पुण्यक्षेत्रं च भारतम्
तीर्थान्येतानि सर्वत्र गङ्गादीति व्रजेश्वर । यावन्ति लोमकूपानि महाविष्णोः क्रमेण च
विश्वान्येव ही तावन्ति ह्यमंख्यातानि च ध्रुवम् । विश्वेषासूर्ध्वाभामे च वैकुण्ठश्च निराश्रयः
मदिच्छया विनिर्माणा वेदाः कथितुमक्षमाः । कुयोगिनाम दृष्टश्चामभक्तानां विनिश्चितम्
तस्मादुपरि गोलोकः पञ्चाशत्कोटियोजनः । वायुना धार्यमाणश्च विचित्रः परमाश्रमः
अतीव रम्यनिर्माणो नित्यरूपो मदिच्छया । शतश्रृङ्गेण शैलेन पुण्यवृन्दावनेन च
सुरासमण्डलेनापि नद्या विरजया युतः । कोटियोजनविस्तीर्णा प्रस्थेन विरजा व्रज