एकदा मयि गोलोके रासे नित्यं प्रकुर्वति । आविर्भूता च वामाङ्गाद्बाला षोढशवार्षिकी
श्वेतचम्पकवर्णाभा शरच्चन्द्रसमप्रभा । अतीव सुन्दरी रामा रमणीनां परावरा
ईषद्धास्यप्रसन्नास्या कौमलाङ्गी मनोहरा । वह्निशुद्धांशुकाधाना रत्नाभरणभूषिता
यथा जलदपङ्क्तिश्च बलाकाभिर्तिभूषिता । सिन्दूरबिन्दूना चारुचन्द्रचन्दनबिन्दुभिः
कस्तूरीबिन्दुभिः सार्धं सीमन्तान्धःस्यलोज्ज्वला । अमूल्यरत्ननिर्माणसुस्निग्धकिरणोज्ज्वला
विचित्रैश्च सुचित्रैश्च सुकपोलस्थलोज्ज्वला । खमेन्द्रचञ्चुविजितनासामौक्तिकशोभिता
गजेन्द्रगण़्डनिर्मुक्तमुक्ताभूषणभूषिता । शुक्त्या विमुक्तमुक्ताभदन्तपङ्क्तिमनोहरा
वलिताकलिताऽतीव पक्वबिम्बाधरा वरा । शश्वत्पूर्णेन्दुनिन्दास्या पद्मनिन्दितलोचना
कृष्णसारनिभोद्भिन्नसुचारुकज्जलोज्ज्वला । अमूल्यरत्ननिर्माणकेयूरकङ्कणोज्ज्वला
मणीन्द्रराजराजीभिः शङ्खयुग्मकरोज्जवला । रत्नाङ्गुलीयकैरेभिरमृताङ्गुलिभूषिता
रत्नेन्द्रराजराजेन क्वणन्मञ्जीररञ्जिता । रत्नपाशकराजीभिः पादाङ्गुलिविराजिता
सुन्दरालक्तरागेण चरणाधःस्थलोज्ज्वला । गजेन्द्रगामिनी रामा कामिनी वामलोचना
मां ददर्श कटाक्षेण रमणी रमणोत्सुका । रासे संभूय रामा सा दधार पुरतो मम
तेन राधा समाख्याता बुराविद्भिः प्रपूजिता । प्रहृष्टा प्रकृतिश्चास्यास्तेन प्रकृतिरीश्वरी
शक्ता स्यात्सर्वकार्येषु तेन शक्तिः प्रकीर्तिता । सर्वाधारा सर्वरूपा मङ्गलार्हा च सर्वतः
सर्वमङ्गलदक्षा सा तेन स्यात्सर्वमङ्गला । वैकुण्ठे सा महालक्ष्मीर्मूर्तिभेदे सरस्वती
प्रसूय वेदान्विदिता वेदमाता च सा सदा । सावित्री स च गायत्री धात्री त्रिजगतामपि
पुरा संहृत्य दुर्गं च सा दुर्गा च प्रकीर्तिता । तेजसः सर्वदेवानामाविर्भूता पुरा सती
तेनाऽऽद्या प्रकृतिर्ज्ञेया सर्वासुरविमर्दिती । सर्वानन्दा च सानन्दा दुःखदारिद्रयनाशिनी
शत्रुणां भयदात्रौ च भक्तानां भयहारिणौ । दक्षकन्या सती का च शैलजातेति पार्वती
सर्वाधारस्वरूपा सा कलया सा वसुंधरा । कलया तुलसी गङ्गा कलया सर्वयोषितः
सृष्टिं करोमि च यया तात शक्त्या पुनः पुनः । दृष्ट्वा तां रासमध्यस्थां मम क्रीडा
बभूव सुचिरं तात यावद्वै ब्रह्मणः शतम् । अत्यद्भुतं कौतुकं च महाश्रृङ्गारमीप्सितम्
तयोर्द्वयोर्धर्मराशिः सुस्राव रासमण़्डले । तस्मान्मनोहरं जज्ञे नामनाकारसरोवरम्
पपात धर्मधाराऽधो वेगेन विश्वगोलके । बभूव जलबूर्णं च ब्रह्माण्डानां च गोलकम्
जलपूर्ण पुरा सर्व शृष्टिशून्यं व्रजेश्वर । श्रुङ्गारान्ते च तस्यां च वीर्याधानं मया कृतम्
दधार गर्भ सा राधा यावद्वै ब्रह्मणाः शतम् । सुस्राव सा तदन्ते च डिम्भं च परमाद्भुतम्
चुकोप देवी तं दृष्ट्वा रुरोद विषसाद सा । पादेन प्रेरयामास तमधो विश्वगोलके
स पपात जले तात सर्वाधारो महान्विराट् । दृष्ट्वाऽपत्यं जलस्थं च मया शप्ता च सा पुरा
अनपत्या च सा राथा मच्छापेन पुरा विभो । तेन प्रसूताः क्रमतो दुर्गा लक्ष्मीः सरस्वती