स्थानं नास्तिक्षणं नास्ति नास्ति प्रार्थयिता नरः । तेन हे नन्द तासां च सतीत्वमुपजायते
अधमा परमा दुष्टाऽत्यन्तासद्वंशजा तथा । अधर्मशीला दुःशीला दुर्मुखा कलहान्विता
पतिं भर्त्सयते नित्यं जारं च सेवते सदा । दुःशं ददाति कान्ताय विषतुल्यं च पश्यति
जारद्वारमुपायेन हन्ति कान्तं मनोहरम् । धर्मिष्ठं च वरिष्ठं च गरिष्ठं च महीतले
कामदेवसमं चापि जारं पश्यति कामतः । शुभदृष्ट्या कटाक्षेण शरवत्पापीयसी मुदा
सुवेषं पुरुषं द्रष्ट्वा युवानं रतिशूकरम् । योनिः क्लिद्यति नारीणां कामिनीनां निरन्तरम्
ददाति भर्त्रे नाऽऽहारं विषोक्तिं वक्ति संततम् । अधर्मं चिन्तयेच्छश्वज्जारं च परमं मुदा
गुरुभिर्भर्त्सिता सा च रक्षिता च शतेन च । तथाऽपि जारं कुरुते नापि साध्या नृपेरपि
नास्ति तस्याः प्रियं किंचित्सर्वं कार्यवशेन च । गावस्तृणमिवारण्ये प्रार्थयन्ती नवं नवम्
विद्युदाभा जले रेखा तस्या प्रीतिस्तथैव च । अधर्मयुक्ता सततं कपटं वक्ति निश्चितम्
व्रते तपसि धर्मे च न मनो गृहकर्मणि । न गुरौ न च देवेषु जारे स्निग्धं च चञ्चलम्
स्त्रीजातित्रिविधानां च कथा च कथिता मया । भक्तानां त्रिविधानां च लक्षणं श्रूयतामिति
तृणशय्यारतो भक्तो मन्नामगुणकीर्तिषु । मनो निवेशयेत्त्यक्त्वा संसारसुखकारणम्
व्यायते मत्पदाब्जं च पूजयेद्भक्तिभावतः । अहैतुकीं तस्य देवाः संकल्परहितस्य च
सर्वसिद्धिंन वाञ्छन्ति तेऽणिमादिकमीप्सितम् । ब्रह्मत्वममरत्वं वा सुरत्वं सुखकारणम्
दास्यं विना नहीच्छन्ति सालोक्यादिचतुष्टयम् । नैव निर्वाणमुक्तिं च सुधापानमभीप्सितम्
वाञ्छन्ति निश्चिलां भक्तिं मदीयामतुलामपि । स्त्रीपुंविभेदो नास्त्येव सर्वजीवेषु भिन्नता
तेषां सिद्धेश्वराणां च प्रवराणां व्रजेश्वर । क्षुत्पिपासादिकं निद्रालोभमोहादिकं रिपुम्
त्पक्त्वा दिवानिशं मां च ध्यायन्ते च दिगम्बराः । समद्भक्तोत्तमो नन्द श्रूयतां मध्यमादिकम्
नाऽऽसक्तः कर्मसु गृही पूर्वप्राक्तनतः शुचिः । करोति सततं चैव पूर्वकर्मनिकृन्तनम्
न करोत्यपरं वत्नात्संकल्परहितः स च । सर्वं कृष्णस्य यत्किंचिन्नाहं कर्ता च कर्मणः
कर्मणा मनसा वाचा सततं चिन्तयेदिति । न्यूनभक्तश्च तन्न्यूनः स च प्राकृतिकः श्रुतौ
यमं वा यमदूतं वा स्वप्नेऽपि न च पश्यति । पुरुषाणां सहस्रं च पूर्वभक्तः सुद्धरेत्
पुंसां शतं मध्यमश्च तच्चतुर्थं च प्राकृतः । भक्तश्च त्रिविधस्तात कथितश्च तवाऽऽज्ञया
ब्रह्माण्डरचनाख्यानं श्रूयतां सावधानतः । ब्रह्माण्डरचनार्थं च भक्ता जानन्ति यत्नतः
मुनयश्च सुराः सन्तः किंचिज्जानन्ति दुःखतः । जानामि विश्वं सर्वार्थ ब्रह्माऽऽनन्तो
धर्मः सनत्कुमारश्च नरनारायणावृषी । कपिलश्च गणेशश्च दुर्गा लक्ष्मीः सरस्वती
वेदाश्च वेदमाता च सर्वज्ञा राधिका स्वयम् । एते जानन्ति विश्वार्थ नान्यो जानाति कश्चन
वैषम्यार्थ च सुधियः सर्वे विज्ञातुमक्षमाः । नित्याकाशो यथाऽऽत्मा च तथा नित्या दिशो दश
यथा नित्या च प्रकृतिस्तथैव विश्वगोलकः । गोलोकश्च यथा नित्यस्तथा वैकुण्ठ एव च