यस्य माता गृहे नास्ति भार्या च पुंश्चली तथा । अरण्यं तेन गन्तव्यमरण्याद्दुःखदं गृहम्
पतीं द्वेष्टि सदा दुष्टा विषतुन्यं च पश्यति । ददाति तस्मै नाऽऽहारं भर्त्सनं कुरुते सदा
पूजितं मुनितुल्यं च सा च पापीयसी परम् । संततं तृणवन्मत्वा न्यक्कारं कुरुते सदा
दुर्वाक्यावह्निना दग्धो मृततुल्यश्च जीवति । यावज्जीवनपर्यन्तं संप्राप्य दुष्टवंशजाम्
गृहिणीनां सदाचारं श्रूयतां तच्छ्रु तौ श्रुतम् । गृहिणी पतिभक्ता च देवब्राह्मणबूजिता
सा शुद्धा प्रातरुत्थाय नमस्कृत्य पतिं सुरम् । प्राङ्गणे मङ्गलं दद्याद्गोमयेन जलेन च
गृहकृत्यं च कृत्वा च स्नात्वाऽऽगत्य गृहं सती । सुरं विप्रं पतिं नत्वा पूजयेद्गृहदेवताम्
गृहकृत्यं सुनिर्वृत्य भोजयित्वा पतिं सती । अतिथिं पूजयित्वा च स्वयं भुङ्कते सुखंसती
पुत्रैश्च पूजितस्तातः शिष्यैश्च पूजितो गुरुः । आज्ञया कुरुते कर्म पुत्रः शिष्यश्च भृत्यवत्
न प्रेरयेद्गुरुं तातं पुत्रः शिष्यश्च कर्मसु । पित्रे च गुरवे नित्यं सर्वस्वं च समर्पयेत्
न कुर्यान्नरबुद्धिं च गुरौ पितरि संततम् । कृत्वा च नरबुद्धिं च ब्रह्महत्यां लभेद्ध्रुवम्
मातरं पूजयेद्भक्त्या पितुश्चाप्यधिकां तथा । मातुः परं गुरुं चैव पूजयेद्भक्तियोगतः
पिता माता गुरुर्भार्या शिष्यः पुत्रः सदाऽक्षमः । अनाथा भगिनी कन्या नित्यं पोष्या गुरुप्रिया
एवं च कथितं तात सर्वेषां धर्ममुत्तमम् । श्त्रीजातिर्वास्तपीशुद्धा ताश्च सर्वाः पतिव्रताः
सर्वा जातिरेकविधा चाऽऽदौ सृष्टा च ब्रह्मणा । ताः सर्वाः प्रकृतेरंशाः पवित्राः पण्डिताधिकाः
केदारकन्याशापेन स हि धर्मः क्षयं गतः । तदा कोपेन धात्रा च कृत्या स्त्री च विनिर्मिता
कृत्या स्त्री त्रिविधा जातिर्ब्रह्मणा निर्मिता पुरा । उत्तमा प्रथमा सा च मध्यमा चाधमा व्रज
उत्तमा पतिभक्ता सा किंचिद्धर्मसमन्विता । प्राणान्तेऽपि न कुरुते तं जारमयशकरम्
पूजयेत्सा यथा कान्तं तथा देवद्विजातिथीन् । व्रतानि चोपवासांश्च कुरुते सर्वपूजनम्
गुरुणा रक्षिता यत्नाज्जारं च न भजेद्भयात् । स कृत्रिमा मध्यमा च यथाकिंचित्पतिं भजेत्
स्थानं नास्तिक्षणं नास्ति नास्ति प्रार्थयिता नरः । तेन हे नन्द तासां च सतीत्वमुपजायते
अधमा परमा दुष्टाऽत्यन्तासद्वंशजा तथा । अधर्मशीला दुःशीला दुर्मुखा कलहान्विता
पतिं भर्त्सयते नित्यं जारं च सेवते सदा । दुःशं ददाति कान्ताय विषतुल्यं च पश्यति
जारद्वारमुपायेन हन्ति कान्तं मनोहरम् । धर्मिष्ठं च वरिष्ठं च गरिष्ठं च महीतले
कामदेवसमं चापि जारं पश्यति कामतः । शुभदृष्ट्या कटाक्षेण शरवत्पापीयसी मुदा
सुवेषं पुरुषं द्रष्ट्वा युवानं रतिशूकरम् । योनिः क्लिद्यति नारीणां कामिनीनां निरन्तरम्
ददाति भर्त्रे नाऽऽहारं विषोक्तिं वक्ति संततम् । अधर्मं चिन्तयेच्छश्वज्जारं च परमं मुदा
गुरुभिर्भर्त्सिता सा च रक्षिता च शतेन च । तथाऽपि जारं कुरुते नापि साध्या नृपेरपि
नास्ति तस्याः प्रियं किंचित्सर्वं कार्यवशेन च । गावस्तृणमिवारण्ये प्रार्थयन्ती नवं नवम्
विद्युदाभा जले रेखा तस्या प्रीतिस्तथैव च । अधर्मयुक्ता सततं कपटं वक्ति निश्चितम्