नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च । नमो ब्रह्मस्वरूपाय सतीप्राणपराय च
नमस्याय च पूज्याय हृदाधाराय ते नमः । पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च
ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे । पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः
पतिश्च निर्गुणाधारो ब्रह्मरूप नमोऽस्तु ते । क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतं च यत्
पत्नीबन्धो दयासिन्धो दासीदोषं क्षमस्व मे । इदं स्तोत्रं महापुण्यं सृष्ट्यादौ पद्मया कृतम्
सरस्वत्या च धरया गङ्गया च पुरा व्रज । सावित्र्या च कृतं पूर्वं ब्रह्मणे चापि नित्यशः
पार्वत्या च कृतं भक्त्या कैलासे शंकराय च । मुनीनां च सुराणां च पत्नीभिश्च कृतं पुरा
पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् । इदं स्तोत्रं महापुण्यं या श्रृणोति पतिव्रता
नरोऽन्यो वाऽपि नारी वा लभते सर्ववाञ्छितम् । अपुत्रो लभते पुत्रं निर्धनो लभते धनम्
रौगी च मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत्
फलं च सर्वं तपसां व्रतानां च व्रजेश्वर । इदं स्तुत्वा नमस्कृत्वा भुङ्क्ते सा तदनुज्ञया
अथ चतुरशीतितमोऽध्यायः श्रीभगवानुवाच द्विजदेवार्चनं चैव करोति सततं गृही । स्वधर्माचरणं चैव चातुर्वर्ण्यं च नित्यणः
कुर्वन्ति गृहिणामाशां सर्वे देवादयस्तथा । अकृत्वाऽतिथिपूजां च गृहस्थश्च सदाऽशुचिः
पितरः कर्मकाले चातिथिकाले च देवताः । सर्वे गृहस्थमायान्ति निपानमिव धेनवः
समायाति प्रयत्नेन सयाह्ने क्षुधितोऽतिथिः । पूजां लब्ध्वाऽऽशिषं कृत्वा प्रयाति गृहिणो गृहात्
अकृत्वाऽतिथिपूजां च गृही भवति पातकी । त्रैलोक्यजनितं पापं लभते नात्र संशयः
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिर्वते । पितरस्तस्य देवाश्च वह्नयश्च तथैव च
निराशाः प्रतिगच्छन्ति गृहिणोऽतिथयो गृहात् । स्त्रीध्नैर्गोघ्नैः कृतघ्नैश्च ब्राह्मणैर्गुरुतल्पगैः
तुल्यदोषो भवत्येव येनातिथिरनर्चितः । स्वात्मनः पातकं दत्त्वा पुण्यमादाय गच्छति
तस्मात्कृत्वा सर्वसेवां देवादींश्च शुभाशयः । पोष्याणां भरणं कृत्वा पश्चाद्भुङ्क्ते स धर्मवित्
यस्य माता गृहे नास्ति भार्या च पुंश्चली तथा । अरण्यं तेन गन्तव्यमरण्याद्दुःखदं गृहम्
पतीं द्वेष्टि सदा दुष्टा विषतुन्यं च पश्यति । ददाति तस्मै नाऽऽहारं भर्त्सनं कुरुते सदा
पूजितं मुनितुल्यं च सा च पापीयसी परम् । संततं तृणवन्मत्वा न्यक्कारं कुरुते सदा
दुर्वाक्यावह्निना दग्धो मृततुल्यश्च जीवति । यावज्जीवनपर्यन्तं संप्राप्य दुष्टवंशजाम्
गृहिणीनां सदाचारं श्रूयतां तच्छ्रु तौ श्रुतम् । गृहिणी पतिभक्ता च देवब्राह्मणबूजिता
सा शुद्धा प्रातरुत्थाय नमस्कृत्य पतिं सुरम् । प्राङ्गणे मङ्गलं दद्याद्गोमयेन जलेन च
गृहकृत्यं च कृत्वा च स्नात्वाऽऽगत्य गृहं सती । सुरं विप्रं पतिं नत्वा पूजयेद्गृहदेवताम्
गृहकृत्यं सुनिर्वृत्य भोजयित्वा पतिं सती । अतिथिं पूजयित्वा च स्वयं भुङ्कते सुखंसती
पुत्रैश्च पूजितस्तातः शिष्यैश्च पूजितो गुरुः । आज्ञया कुरुते कर्म पुत्रः शिष्यश्च भृत्यवत्
न प्रेरयेद्गुरुं तातं पुत्रः शिष्यश्च कर्मसु । पित्रे च गुरवे नित्यं सर्वस्वं च समर्पयेत्