क्षुधितं भोजयेत्कान्तं दद्यात्पानं च भोजनम् । न बोधयेत्तं निद्रालुं प्ररेयेन्नैव कर्मसु
पुत्राणां च शतगुणं स्नेहं कुर्यात्पतीं सती । पतिर्बन्धुर्गतिर्भर्ता दैवतं कुलयोषितः
शुभं दृष्ट्वा सुधातुल्यं कान्तं पश्यति सुन्दरी । सस्मितं वदनं कृत्वा भक्तिभावेन यत्नतः
पुरुषाणां सहस्रं च सती स्त्री च समुद्धरेत् । पतिः पतिव्रतानां च मुच्यते सर्वपातकात्
नास्ति तेषां कर्मभोगः सतीनां व्रततेजसा । तया सार्धं च निष्कर्मी मोदते हरिमन्दिरे
पृथिव्यां यानि तीर्थानि सतीपादेषु तान्यपि । तेजश्च सर्वदेवानां मुनीनां च सतीषु च
तपस्विनां तपः सर्वं व्रतिनां यत्फलं व्रज । दाने फलं यद्दातणां तत्सर्व तासु संततम्
स्वयं नारायणः शंभुर्विधाता जगतामपि । सुराः सर्वे च मुनयो भीतास्ताभ्यां च संततम्
सतीनां पादरजसा सद्यः पूता वसुंधरा । पतिव्रतां नमस्कृत्वा मुच्यते पातकान्नरः
त्रैलोक्यं भस्मसात्कर्तुं क्षणेनैव पतिव्रता । स्वतेजसा समर्था सा महापुण्यवती सदा
सतीनां च पतिः साधुः पुत्रो निःशंक एव च । न हि तस्य भयं किंचिद्देवेभ्यश्च यमादपि
शतजन्मपुण्यवतां गेहे जाता पतिव्रता । पतिव्रताप्रसूः पूता जीवन्मुक्तः पिता तथा
सती स्त्री प्रातरुत्थाय त्यक्त्वा च रात्रिवाससम् । भर्तारं च नमस्कृत्य करोति स्तवनं मुदा
गृहकार्यं ततः कृत्वा स्नात्वा धौते च वाससी । गृहीत्वा शुक्लपुष्पं च भक्तितः पूजयेत्पतिम्
स्नापयित्वा सुपूतेन जलेन निर्मलेन च । तस्मै दत्त्वा धौतवस्त्रं तत्पादौ क्षालयेन्मुदा
आसने वासयित्वा च दत्त्वा भाले च चन्दनम् । सर्वाङ्गलेपनं कृत्वा दत्त्वा माल्यं गलेऽपि च
सामवेदोक्तमन्त्रेण भोगद्रव्यैः सुधोपमैः । संपूज्य भक्तितः कान्तं स्तुत्वा च प्रणमेन्मुदा
ओं नमः कान्ताय शान्ताय सर्वदेवाश्रयाय स्वाहा । इत्यनेनैव मन्त्रेण दत्त्वा पुष्पं च चन्दनम्
पाद्यार्ध्यं धूपदीपौ च वस्त्रं नैवेद्यमुत्तमम् । जलं सुवासितं शुद्धं ताम्बूलं च सुवासितम्
दत्त्वा स्तोत्रं पठेद्यद्यत्कृतं वै पाठ्यमेव च । ओं नमः कान्ताय भर्त्रे च शिरश्चन्द्रस्वरूपिणे
नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च । नमो ब्रह्मस्वरूपाय सतीप्राणपराय च
नमस्याय च पूज्याय हृदाधाराय ते नमः । पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च
ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे । पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः
पतिश्च निर्गुणाधारो ब्रह्मरूप नमोऽस्तु ते । क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतं च यत्
पत्नीबन्धो दयासिन्धो दासीदोषं क्षमस्व मे । इदं स्तोत्रं महापुण्यं सृष्ट्यादौ पद्मया कृतम्
सरस्वत्या च धरया गङ्गया च पुरा व्रज । सावित्र्या च कृतं पूर्वं ब्रह्मणे चापि नित्यशः
पार्वत्या च कृतं भक्त्या कैलासे शंकराय च । मुनीनां च सुराणां च पत्नीभिश्च कृतं पुरा
पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् । इदं स्तोत्रं महापुण्यं या श्रृणोति पतिव्रता
नरोऽन्यो वाऽपि नारी वा लभते सर्ववाञ्छितम् । अपुत्रो लभते पुत्रं निर्धनो लभते धनम्
रौगी च मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत्