एकादश्यामनाहारं गृही विप्रश्च भारते
गृहिणां शैवशाक्तानामिदमुक्तं च नारद
नित्यं नैवेद्यभोजो यः श्रीविष्णोस्स हि वैष्णवः
वाञ्छन्ति तस्य संस्पर्शं तीर्थान्यखिलदेवताः
द्विः स्विन्नमन्नं पृथुकं शुद्धं देशविशेषके
अभक्ष्यं वै यतीनां च विधवाब्रह्मचारिणाम्
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् 1.27.
सर्वेषां ब्राह्मणानां यदभक्ष्यं शृणु नारद
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम्
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं लघु
उत्थाय वामहस्तेन यस्तोयं पिबति द्विजः
अनिवेद्यं हरेरन्नं भुक्तशेषं च नित्यशः
वानिङ्गणफलं चैव गोमांसं कार्त्तिके स्मृतम्
श्वेतवर्णं च तालं च मसूरं मत्स्यमेव च
मत्स्यांश्च कामतो भुक्त्वा सोपवासस्त्र्यहं वसेत्
प्रतिपत्सु च कूष्माण्डमभक्ष्यं ह्यर्थनाशनम्
अभक्ष्यं च पटोलं च शत्रुवृद्धिकरं परम् 1.27.
कलङ्ककारणं चैव पंचम्यां बिल्वभक्षणम्
रोगवृद्धिकरं चैव नराणां तालभक्षणम्
नारिकेलफलं भक्ष्यमष्टम्यां बुद्धिनाशनम्
एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा
चतुर्दश्यां माषभक्ष्यं महापापकरं परम्
गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिनेषु च
प्रशस्तं सार्षपं तैलं पक्वतैलं च नारद
रवौ श्राद्धे व्रताहे च दुष्टं स्त्रीतिलतैलकम्
निषिद्धं शयनं चैव कूर्ममांसं च मन्त्रितम्
रात्रौ च दधि भक्ष्यं च शयनं सन्ध्ययोर्दिने 1.27.
उदक्यवीरयोरन्नं पुंश्चल्यन्नमभक्षकम्
अभक्ष्यान्नं च विप्रर्षे यदन्नं वृषलीपतेः
अग्रदानिद्विजान्नं च चिकित्साकारकस्य च