संन्याची याति सायाह्ने क्षुधितो गृहिणां गृहम् । सदन्नं वा कदन्नं वा तद्दत्तं नैव वर्जयेत्
न याचते च मिष्टान्नं न कुर्यात्कोपमेव च । न धनग्रहणं कुर्यादेकवासा निरीहतः
शीतग्रीष्मसमानश्च लोभमोहविवर्जितः । तत्र स्थित्वैकरात्रं च प्रातरन्यत्स्थलं व्रजेत्
यानमानोहणं कृत्वा गृहीत्वा गृहिणो धनम् । गृहं कृत्वा गृही रम्यात्स्वधर्मात्पतितो भवेत्
कृत्वा चकृषिवाणिज्यं कुवृत्तिं कुरुते च यः । स संन्यासी हृताचारः स्वधर्मात्वतितो भवेत्
अशुभं च शुभं वाऽपि स्वकर्म कुरुते यदि । बहिष्कृतः स्वधर्मो वाऽप्युपहास्यश्च वै भवेत्
ब्राह्मणी पतिहीना या भवेन्निष्कामिनी सदा । एकभुक्ता दिनान्ते सा हविष्यान्नरता सदा
न धत्ते दिव्यवस्त्रं च गन्धद्रव्यं सुतैलकम् । स्रजं च चन्दनं चैव शङ्खसिन्दूरभूषणम्
त्यक्त्वा मलिनवस्त्रा स्यान्नित्यं नारायणं स्मरेत् । नारायणस्य सेवां च कुरुते नित्यमेव च
तन्नामोच्चारणं शश्वत्कुरुते नान्यभक्तितः । पुत्रतुल्यं च पुरुषं सदा पश्यति धर्मतः
मिष्टान्नं न च भुङ्क्ते सा न कुर्याद्विभवं व्रज । एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने
श्रीरामस्य नवम्यां तु शिवरात्रौ पवित्रया । अघोरायां च प्रेतायां चन्द्रसूर्योपरागयोः
भृष्टं द्रव्यं परित्यज्य भुज्यते परमेव च । ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचानिणाम्
संन्यासिनां च सौमांससुरातुल्यं श्रुतौ श्रुतम् । रक्तशाकं मसूरं च जम्बीरं पर्णमेव च
अलाबुर्वर्तुलाकारा वर्जनीया च तैरवि । पर्यङ्कशायिनी नारी विधवा पातयेत्पतिम्
यानमारोहणं कृत्वा विधवा नरकं व्रजेत् । न कुर्यात्केशसंस्कारं गात्रसंस्कारमेव च
केशवेणी जटारूपे तत्क्षौरं तीर्थकं विना । तैलाभ्यङ्गंन कुर्वीत नहि पश्यति दर्पणम्
मुखं च परपुंसां च यात्रां नृत्यं महोत्सवम् । नर्तनं गायनं चैव सुवेषं पुरुषं शुभम्
शृणुयाच्च सतां धर्म सामवेदनिरूपितम् । परमार्थ परं चैव निबोध कथयामि ते
अध्यापनमध्यानं शिष्याणां परिपालनम् । गुरुणां सेवनं नित्यं द्विचदेवार्चनं तथा
सिद्धान्तशास्त्रनैपुण्यं भावनं स्वात्मतोषणम् । व्याख्यानं परिशुद्धं च ग्रन्थाभ्यस्तं च संततम्
प्यवस्थापरिशुद्ध्यर्थ विचारो वेदसंमतः । शास्त्रार्थाचरणं चैव कतध्यं स्वयमेव च
देवाह्निकेषु नैपुण्यं वेदाचरणमीप्सितम् । वेदोक्तभक्षणं चैव पवित्राचरणं सदा
पतिव्रतानां यं धर्म तं निबोध व्रजेश्वर । नित्यंतु भर्तर्यौत्सुक्यात्तत्पादोदकमीप्सितम्
भक्तिभावेन सततं भोक्तव्यं तदनुज्ञया । व्रतं तपस्यां देवार्चां परित्यज्य प्रयत्नतः
कुर्याच्चरणसेवां च स्तवनं परितोषणम् । तदाज्ञारहितं कर्म न कुयद्विरैतः सती
नारायणात्परं कान्तं ध्यायते सततं सती । परपुंसां मुखं चैव सुवेषपुरुषं परम्
यात्रामहोत्सवं नृत्यं नर्तनं गायनं व्रज । परक्रीडां च सततं न हि पश्यति सुव्रता
यद्भक्ष्यं स्वामिनो नित्यं तदेवमपि योषिताम् । नहि त्यजेत्तु तत्सङ्गं क्षणमेव च सुव्रता
उत्तरे नोत्तरं दद्यात्स्वामिनश्य पतिव्रता । न कोपं कुरुते शुद्वा ताडिता चापि कोपतः