चन्द्रसूर्येपरागे वै चाऽऽशौचे मृतजातयोः । स्पृष्टेनाशुचिना सद्याः पाकभाण़्डं परित्यजेत्
भृष्टं द्रव्यं तथाऽन्नं च धृत्वा धौते च वाससी । पादप्रक्षालनं कृत्वा भुङ्कते स्थानो परिष्कृते
द्विर्भोजनं न कर्तव्यं स्थिते सूर्ये द्विजातिभिः । निष्फलं तद्भवेत्कर्म भुक्त्वा च नरकं व्रजेत्
यात्रां युद्वं नदीतीरं पुनर्भोजनमैथुने । वर्जंयेच्छ्राद्धदिवसे हविष्याशी च संयमी
द्विजाय विष्णुभक्ताय पात्रं दद्याद्वुधाय च । वृषलीपतये चैव न दद्याय्छूद्रयाजिने
संध्याहीनाय दुष्टाय वृषवाहाय यत्नतः । शुक्रविक्रयिणे चैव देवलाय कदाचन
प्रदत्तं पात्रमेतेभ्यो ब्राह्मणं नरकं नयेत् । पात्रे भुक्तवा तद्दिवसे मैथुनान्नरकं व्रजेतु
सर्वेभ्यः पातकी तात कन्याविक्रयकारकः । मून्यं गृहीत्वा यो दद्यात्स महारौरवं व्रजेत्
कन्यालोमप्रमाणान्तं वर्षं च पितृभिः सह । कुम्भीपाके पच्यते च पुत्रश्चापि पुरोहितः
तस्मात्कन्यां सुपात्राय दानं कुर्याद्विचक्षणः । शूद्रवद्ब्राह्मणेभ्यश्च नैव तद्वंशचाय च
विप्रवैष्णवयोर्धर्मः कथितश्च व्रजेश्वरः । यदुक्तं च पुराणैश्च चतुर्भिः श्रुतिभिस्तथा
द्विजार्चनं क्षत्रियाणां तथा नारायणार्चनम् । राज्यानां पालनं चैव रणे निर्भयता तथा
नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम् । पुत्रतुल्यं प्रजानां च दुःखिनां परिपालनम्
शस्त्रास्त्राणां च नैपुण्यं रणे शौण्डीर्यमेव च । तपश्च धर्मकृत्यं च यत्नतः कुरुते मुदा
पण्डितं नीतिज्ञास्त्रज्ञं नित्यं च परिपालयेत् । नियोजयेत्सभामध्ये नित्यं सद्भिश्च संयुते
हस्त्यश्वरथपादातं सेनाङ्गं च चतुष्टयम् । पालयेद्यत्नतो नित्यं यशस्वी च प्रतापवान्
रणे निमन्त्रितश्चैव दाने न विमुखो भवेत् । रणे वा यस्त्यजेत्प्राणांस्तस्य स्वर्गो यशस्करः
वैश्यानामपि वाणिज्यमीश्वरः कृषिपालने । विप्रदेवार्चनं दानं तपस्या व्रतसेवनम्
विप्राणामर्चनं नित्यं शूद्रधर्मो विधीयते । तत्कृषी तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत्
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः । श्वापदः शतजन्मानि शूदो विप्रधनापहः
यः शूद्रो ब्राह्मणीगामी मातृगामी स पातकी । कृम्भीपाके पच्यते स यावद्वै ब्रह्मणः शातम्
कुम्भीपाके तप्रतैले भुक्तः सर्पैरहर्निशम् । शब्दं च विकृताकारं कुरुते यमताडनात्
ततश्चाण्डालयोनिः स्यात्सप्तजन्मसु पातकी । सप्तजन्मसु सर्पश्च जलौकाः सप्तजन्मसु
जन्मकोटिसहत्रं च विष्ठायां जायते कृमिः । पुंश्चलीनां योनिकृमिः स भवेत्सप्तजन्मसु
गर्वा व्रणकृमिः स्याच्च पातकी सप्तजन्मसु । योनौ योनौ भ्रमत्येवं न पुनर्जायते नरः
संन्यासिनां च यो धर्मो मन्मुखाच्च निशामय। दण्डग्रहणमात्रेण नरो नारायणो भवेत्
पूर्वकर्माणि दग्ध्वा च परकर्मनिकृन्तनम् । कुरुते चिन्तयेन्मां च ह्यायाति मम मन्दिरम्
संन्यासिनां पदस्पर्शात्सद्यः पूता वसुंधरा । सद्यः पुनन्ति तीर्थानि वैष्णवस्य यथा व्रज
संन्यासिनश्च स्पर्शेन निष्पापो जायते नरः । संन्यासिनं भोजयित्वा चाश्वमेधफलं लभेत्
नत्वा च कामतो दृष्ट्वा राजसूयफलं लभेत् । फलं संन्यासिनां तुन्यं यतीनां ब्रह्मचारिणाम्