विप्रपादोदकं पीत्वा तीर्थस्नायी भवेन्नरः । विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी
तावत्पुष्करपात्रेषु पिवन्ति पितरो जलम् । विष्णुप्रसादभोजी च पवित्रां कुरुते महीम्
तीर्थानि च नरांश्चैव जीवन्मुक्तो हि स द्विजः । सर्वतीर्थेषु स स्नातो व्रतानां च फलं लभेत्
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् । वह्निवायुसमः पूतस्तेजसा भास्करोपमः
यमदूतं यमं चैव स च स्वप्ने न पश्यति । वैकुण्ठे मोदते सोऽपि पार्षदो हरिणा सह
न भवेत्तस्य पातो हि विप्रस्य हरिसेविनः । विष्णुमन्त्रोपासकश्य स एव वैष्णवो द्विजः
ब्राह्मणो वैष्णवः प्राज्ञो न हि तस्मात्परः पुमात् । वेदोक्तो वा पुराणोक्स्तन्त्रोक्तो वा
विचारतो गृहीत्वा तं शैवः शाक्तश्च वैष्णवः । गुरुवक्त्राद्विष्णुमन्त्रोयस्य कर्णे विशत्ययम्
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः । मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः
भीत्तवा ब्रह्मण्डमखिलं यास्यत्येव हरेः पदम् । पूर्वान्सप्त परान्सप्त सप्त मातामहादिकान्
सोदरानृद्धरेद्भक्तस्तत्प्रसूं तत्प्रसूं तथा । जपेन्नारायणक्षेत्रे पुरश्चरणपूर्वकम्
पुरुषाणां सहस्रं च लीलयाऽ।त्मानमुद्वरेत् । मन्त्रग्रहणमात्रेण फलमेतद्व्रजेश्वर
पुरश्चरणसंपर्कात्पुरुषाणां शतं शतम् । ऐकान्तिको वैष्णवश्चपुंसां लक्षं समुद्धरेत्
क्रिया विष्णुपदे यस्य संकल्पाश्च बहिःकृता । द्विजाः सुरा मम प्राणा भक्तः प्राणत्परः प्रियः
विश्वेषु प्रियपात्रेषु न मे भक्तात्परः प्रियः । तेजीयांसं गुरुं दृष्ट्वा सर्वत्र रक्षितुं क्षमम्
कनोति मन्त्रग्रहणं तस्माद्भूयाद्विचक्षणः । वयोहीनाज्ज्ञानहीनाद्विद्याहीनात्तथैव च
अशास्त्रार्थ क्षतं मन्त्रं न गुह्णीयात्कदाचन । मूर्खादाश्रमहीनाच्च पितुः संन्यासिनस्तथा
रोगिणो वंशहीनाच्च भार्याहीनात्तथैव च । मन्त्रक्षिप्तात्तथा मन्त्रं न गृह्णीयात्कदाचन
विष्णुमन्त्रं न गृह्णीयाद्विष्णुभक्ति विहीनतः । न च शैवान्न शाक्ताच्च गृह्णीयाद्वैष्णवाद्द्विजात्
वयोहीनात्तथाऽल्पायुर्ज्ञानहीनादपण्डितः । विद्याहीनाद्भवेन्मूढो जातिहीनात्क्षयो भवेत्
मूर्खान्मूर्खो भवेत्सद्यो दुःखी स्वाश्रमहीनतः । यशोहानिः पितुश्चैव मृत्युः संन्यासिनस्तथा
रोगिणो व्याधियुक्तश्च निर्वंशो वंशहीनतः । भार्याहीनोऽपि स्त्रीहीनान्मन्त्रक्षिप्ताद्गुरो समः
विष्णुभक्तिविहीनाच्च भक्तिहीनो भवेन्नरः । शैवाच्छाक्ताद्गृहीत्वा च हरौ भक्तिर्न वर्धते
ब्राह्मणो वैष्णवः शुद्धः पक्वान्नं दातुमीश्वरः । पक्वान्नं हरये दातुमक्षमश्चेतरो जनः
ओंकारोच्चारणाद्धोमाच्छालग्रामशिलार्चनात् । मह्यं पक्वान्नदानाच्च विप्रादन्यो व्रजेदधः
उदासीनाद्दूराचारान्न गृङ्णीयान्मनुं सुधीः । दैवाद्यदि च गृह्णीयाद्धनहीनो भवेद्ध्रुवम्
ब्राह्मणानां सदा भक्ष्यं हविष्यं च निरामिषम् । आमिषस्य परित्यागात्सूर्यंवत्तेजसा भवेत्
नित्यं नूतनभाण्डेन कर्तव्यः पाक एव च । अथवा पक्षपर्यन्तं ततस्त्याज्यं मनीथिभि
स्थानं सुसंस्कृतं कृत्वा पाकं निर्वृ त्य पूजकः । स्थाने परिष्कृते विप्रो दत्त्वा मह्यं च भक्तितः
तदा निवेद्य भुङ्क्ते च दत्त्वा विप्राय सादरम् । अनिवेद्य च भुक्त्त्वा च सुरापीतिर्भवेद्द्विजः