अन्नं विष्ठा जलं यद्विष्णोरनिवेदितम् । विष्णुप्रसादभोजी च जीवन्मुक्तश्च ब्राह्मणः
नित्यं तपस्यानिरतः शुचिः शान्तश्च शास्त्रवित् । व्रततीर्थाश्रितो धर्मी नानाध्यापनसंयुतः
विष्णुमन्त्रं गृहीत्वा च कृत्वा च गुरुसेवनम् । गुहीत्वा तदनुज्ञां च पश्चाद्भवति स गृही
दक्षिणां नित्यबूजानां गुरवे च निवेदयेत् । गुरूणां पोषणं नित्यं कर्तव्यं नात्र संशयः
सर्वेषामपि वन्द्यानां पिता चैव महान् गुरुः । पितुः शतगुणैर्माता मातुः शतगुणैः सुरः
मन्त्रदस्तन्त्रदश्चैव सृराणां च चतुर्गुणः । नारायणाश्च भगवान्गुरुः प्रत्यक्ष ईश्वरः
उद्देशे दीयते तस्मै सुरायेति श्रुतौ श्रुतम् । प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः । गुरौ च सर्वदेवाश्च तिष्ठन्ति सततं मुदा
गुरौ तुष्टे हरिस्तुष्टो यस्मिंस्तुष्टे च देवता । गुरुः पुत्रसमं स्नेहं शिष्येषु न करिष्यति
लभते ब्रह्महत्यां च भुङ्क्ते कृत्वा च नाऽऽशिषम् । स्वधर्मनिरतो विप्रो ब्राह्मणश्च सदा शुचिः
विष्णुसेवी सदा विप्रस्तदन्योऽप्यशुचिः सदा । ब्राह्मणो वृषवाहश्च शूद्राणां सूपकारकः
ब्राह्मणो देवलश्चैव संध्याहीनश्च दुर्बलः । ब्राह्मणश्च दिवाशायी शूद्रश्राद्धान्नभोजनः
शूद्राणां शवदाही च ते च शूद्रसमा द्विजाः । शालग्राममहामन्त्रं कृत्वा पूजां विधानतः
भुङ्क्ते नंवेद्यशेषं च तत्पादोदकमेव च । हरेः पादोदकं पीत्वा तीर्थस्नायी भवेन्नरः
मुच्यते सर्वपापेम्यो विष्णुलोकं स गच्छति । स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् । गङ्गाजलाद्दशगुणं शालग्रामजलं व्रज
नित्यं भुङ्क्ते च यो विप्रो जीवन्मुक्तः सुरैः समः । विप्राणां नित्यकृत्यं च विष्णोर्नैवेद्यभोजनम्
यत्नेन पूजनं तस्य तत्पाजोदकमेवनम् । नित्यं त्रिसंध्यं कुरुते भक्त्या च मम पूजनम्
एकादश्यां न भुङ्क्ते च मम वै जन्मवासरे । शिवरात्रौ च हे तात श्रीरामनवमीदिने
न च भुङ्क्ते व्रती यो हि जीवन्मुक्तो हि स द्विजः । पृथिव्यां यानि तीर्थानि तस्य पादे च तानि च
विप्रपादोदकं पीत्वा तीर्थस्नायी भवेन्नरः । विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी
तावत्पुष्करपात्रेषु पिवन्ति पितरो जलम् । विष्णुप्रसादभोजी च पवित्रां कुरुते महीम्
तीर्थानि च नरांश्चैव जीवन्मुक्तो हि स द्विजः । सर्वतीर्थेषु स स्नातो व्रतानां च फलं लभेत्
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् । वह्निवायुसमः पूतस्तेजसा भास्करोपमः
यमदूतं यमं चैव स च स्वप्ने न पश्यति । वैकुण्ठे मोदते सोऽपि पार्षदो हरिणा सह
न भवेत्तस्य पातो हि विप्रस्य हरिसेविनः । विष्णुमन्त्रोपासकश्य स एव वैष्णवो द्विजः
ब्राह्मणो वैष्णवः प्राज्ञो न हि तस्मात्परः पुमात् । वेदोक्तो वा पुराणोक्स्तन्त्रोक्तो वा
विचारतो गृहीत्वा तं शैवः शाक्तश्च वैष्णवः । गुरुवक्त्राद्विष्णुमन्त्रोयस्य कर्णे विशत्ययम्
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः । मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः
भीत्तवा ब्रह्मण्डमखिलं यास्यत्येव हरेः पदम् । पूर्वान्सप्त परान्सप्त सप्त मातामहादिकान्