विष्णुं नारायणं कृष्णं माधवं मधुमूदनम् । हरिं नरहरिं रामं गोविन्दं दधिवामनम्
भक्त्या चेमानि नामानि दश भद्राणियो जपेत् । शतकृत्यो भक्तियुक्तो जप्त्वा नीरोगतां व्रजेत्
लक्षधा हि जपेद्यो हि बन्धनान्मुच्यते ध्रुवम् । जप्त्वा च दशलक्षं च महावन्ध्या प्रसूयते
हविष्याशी यतः शुद्धो दरिद्रो धनवान्भवेत् । शतलक्षं च जप्त्वा च जीवन्मुक्तो भवेन्नरः
ओं नमः शिवं दुर्गां गणपतिं कार्तिकेयं दिनेश्वनम् । धर्मं गङ्गां च तुलसीं राधां लक्ष्मीं सरस्वतीम्
नामान्येतानि भद्राणि जले स्नात्वा च यो जपेत् । वाञ्छितं च लभेत्सोऽपि दुःस्वप्नः शुभवान्भवेत्
ओं ह्रीं क्लीं पूर्वदूर्गतिनाशिन्यै महामायायै स्वाहा । कल्पवृक्षो हि लोकानां सन्त्रः सप्तदशाक्षरः
शुचिश्च दशधा जप्त्वा दुःस्वप्नः सुखवान्भवेत् । शतलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्
सिद्धमन्त्रस्तु लभते सर्वसिद्धिं च वाञ्छितम् । ओं नमो मृत्युंजयायेति स्वाहान्तं लक्षधा जपेत्
दृष्ट्वा च मरणं स्वप्ने शतायुश्च भवेन्नरः । पूर्वोत्तरमुखो भूत्वा स्वप्नं प्राज्ञे प्रकाशयेत्
काश्यपे दुर्गते नीचे देवब्राह्मणनिन्दके । मूर्खे चैवानभिज्ञे च न च स्वप्नं प्रकाशयेत्
अश्वत्थे गणके विप्रे पितृदेवासनेषु च । आर्ये च वैष्णवे मित्रे दिवा स्वप्नं प्रकाशयेत्
इति ते पुण्यमाख्यातं कथितं पापनाशनम् । धन्यं यशस्यमायुष्यं किं भूयः श्रोतुमिच्छसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo द्व्यशीतितमोऽध्यायः
अथ त्र्यशीतितमोऽध्यायः नन्द उवाच वेदानां कारणं त्वं च ब्रह्मादीनां च पुत्रक । सर्वं कथय भद्रं ते कं पृच्छामि त्वया विना
विप्राणां यो हि धर्मश्च क्षत्रविद्शूद्रकर्मणाम् । संन्यासिनां च यो धर्मो यतीनां ब्रह्मचारिणाम्
विप्राणां विधवास्त्रीणां वैष्णवानां सतामपि । पतिव्रतानां स्त्रीणां च तत्सर्व वक्तुमर्हसि
गृहिणां गृहिणीनां च शिष्याणां च विशेषतः । पुत्राणां चापि कन्यानां पितरं मातरं प्रति
स्त्रीजातिश्च कतिविधा भक्तः कतिविधः प्रभो । ब्रह्माण्डं च कतिविधं वदनं च किमात्मकम्
श्रीभगवानुवाच संध्यापूतः सदा विप्रः कुरुते मम सेवनम् । नित्यं भुङ्कते मत्प्रसादमनिवेद्य कदा च न
अन्नं विष्ठा जलं यद्विष्णोरनिवेदितम् । विष्णुप्रसादभोजी च जीवन्मुक्तश्च ब्राह्मणः
नित्यं तपस्यानिरतः शुचिः शान्तश्च शास्त्रवित् । व्रततीर्थाश्रितो धर्मी नानाध्यापनसंयुतः
विष्णुमन्त्रं गृहीत्वा च कृत्वा च गुरुसेवनम् । गुहीत्वा तदनुज्ञां च पश्चाद्भवति स गृही
दक्षिणां नित्यबूजानां गुरवे च निवेदयेत् । गुरूणां पोषणं नित्यं कर्तव्यं नात्र संशयः
सर्वेषामपि वन्द्यानां पिता चैव महान् गुरुः । पितुः शतगुणैर्माता मातुः शतगुणैः सुरः
मन्त्रदस्तन्त्रदश्चैव सृराणां च चतुर्गुणः । नारायणाश्च भगवान्गुरुः प्रत्यक्ष ईश्वरः
उद्देशे दीयते तस्मै सुरायेति श्रुतौ श्रुतम् । प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः । गुरौ च सर्वदेवाश्च तिष्ठन्ति सततं मुदा
गुरौ तुष्टे हरिस्तुष्टो यस्मिंस्तुष्टे च देवता । गुरुः पुत्रसमं स्नेहं शिष्येषु न करिष्यति
लभते ब्रह्महत्यां च भुङ्क्ते कृत्वा च नाऽऽशिषम् । स्वधर्मनिरतो विप्रो ब्राह्मणश्च सदा शुचिः