रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपराम् । उपगूहति यः स्वप्ने तस्य व्याधिर्विनिश्चितम्
पतितान्नखरेशांश्च निर्वाणाङ्गारमेव च । भस्मबूर्णां चितां दृष्ट्वा लभते मृत्युमेव च
श्मशानं शुष्ककाष्ठं च तृणानि लोहमेव च । शमीं च किं चित्कृष्णाश्वं दृष्ट्वा दुःखं लभेद्ध्रुवम्
पादुकां फलकं रक्तं पुष्पमाल्यं भयानकम् । माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं लभेत्
कटकं सरठं काकं भल्लूकं वानरं गवम् । पूयं गात्रमलं स्वप्ने केवलं व्याधिकारणम्
भग्नभाण्डं क्षतं शूद्रं गलत्कुष्ठं च रोगिणम् । रक्ताम्बरं च जटिलं सूकरं महिषं खरम्
अन्धकारं महाघोरं मृतजीवं भयंकरम् । दृष्ट्वा स्वप्ने योनिलिङ्ग विपत्तिं लभतेध्रुवम्
कुवेषरुपं मलेच्छं च यमदूतं भयंकरम् । पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्युं लभेन्नरः
ब्रह्मणो ब्राह्मणी बाला बालको वा सुतः सुता । विलापं कुरुते कोपाद्दृष्ट्वा दुःखमवाप्नुयात्
कृष्णं पुष्पं च तन्माल्यं सस्यं शस्त्रास्त्रधारिणम् । म्लेच्छां च विकृताकारं दृष्ट्वा मृत्युंलभेद्ध्रुवम्
त्यक्तप्राणं मृतं दृष्ट्वा मृत्युं च लभते ध्रुवम् । मत्स्यादि धारयेद्यो हि तद्भ्रातुर्मरणं ध्रुवम्
वाद्यं च नर्तनं गीतं गायनं रक्तवाससम् । मृदङ्गवाद्यमानं तं दृष्ट्वा दुःखं लभेद्ध्रुवम्
छिन्नं वाऽपि कबन्धं वा विकृतं मुक्तकेशिनम् । क्षिपं नृत्यं च कुर्वन्तं दृष्ट्वा मृत्युं लभेन्नरः
मृतो वाऽपि मृता वाऽपि कृष्णा म्लेच्छा भयानका । उपगूहति यं स्वप्ने तस्य मृत्युर्विनिश्चितम्
येषां दन्ताश्च भग्नाश्च केशाश्चापि पतन्ति हि । धनहानिर्भवेत्तस्य पीडा वा तच्छरीरजा
उपद्रवन्ति यं स्वप्ने श्रृङ्गिणो दंष्ट्रिणोऽपि वा । बालका मानवाश्चैव तस्य राजकुलाद्भयम्
छिन्नवृङं पतन्तं च शिलावृष्टिं तुषंक्षुरम् । रक्ताङ्गारं भस्मवृष्टिं दृष्ट्वा दुःखमावाप्नुयात्
गृहं पतन्तं शैलं वा धूमकेतुं भयानकम् । भग्नस्कन्धं तरोर्वाऽपि दृष्ट्वा दुःखमवाप्नुयात्
रथगेहशैलवृक्षगोहस्तितुरगाम्बरात् । भूमौ पतति यः स्वप्ने विपत्तिस्तस्य निश्चितम्
उच्चैः पतन्ति गर्तेषु भस्माङ्गारयुतेषु च । क्षारकुण्डेषु चूर्णेषु मृत्युस्तेषां न संशयः
बलाद्गृह्णाति दुष्टश्चच्छत्रं च यस्य मस्तकात् । पितुर्नाशो भवेत्तस्य गुरोर्वाऽपि नृपस्य वा
सुरभिर्यस्य गेहाच्च याति त्रस्ता सवत्मिका । प्रयाति पापिनस्तस्य लक्ष्मीरपि वसुंधरा
पाशेन कृत्वा बद्वं च यं गृहीत्वा प्रयान्ति च । यमदूताश्च ये म्लेच्छास्तस्य मृत्युर्विनिश्चितम्
गणको ब्राह्मणो वाऽपि ब्राह्मणी वा गुरुस्तथा । परिरुष्टः शपति यं विपत्तिस्तस्य निश्चितम्
विरोधिनश्य काकाश्च कुक्कुटा भल्लुकास्तथा । पतन्त्यागत्य यद्गात्रे तस्य मृत्युर्न संशयः
महिषा भल्लुका उष्ट्रा सूकरा गर्दभास्तथा । रुष्टा धावन्ति यं स्वप्ने स रोगी निश्चितं भवेत्
रक्तचन्दनकाष्ठानि घृताक्तानि जुहोति यः । गायत्र्याश्च महस्रेण तेन शान्तिर्विधीयते
सहस्रधा चपेद्यो हि भक्त्यैनं मधुसूदनम् । निष्पाणो हि भवेत्सोऽपि दुःस्वप्नः सुस्वप्नो भवेत्
अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैव ह्येतन्नामाष्टकं शुभम्
शुचिः पूर्वमुखः प्राज्ञो दशकृत्वश्च यो जपेत् । निष्पापोऽपि भवेत्सोऽपि दुःस्वप्नः शुभवान्भवेत्